________________
७९
रचितवृत्तियुतम्] पद्मावत्यष्टकम् । सहस्रज्वलदनलशिखालोलपाशाङ्कशाढ्या, तस्याः सम्बोधनं क्रियते व्याघ्रोरोल्कासहस्रज्वलदनलशिखालोलपाशाङ्कुशाढये !-तमापतनज्वालासहस्रदेदीप्यमानानलज्वालाचञ्चलपाशकरिकलभकुम्भविदारणप्रहरणे ! इत्यर्थः । पुनः 'ॐ को ह्री मन्त्ररूपे !' ॐ च को च ही च ॐ को ह्री, ॐ को ह्रीं एवंरूपो य एव मन्त्रः ॐ को ही मन्त्रः, तत्स्वरूपे ! ॐ को ह्री मन्त्ररूपे प्रतीते!। पुनरपि कीदृशे ! 'क्षपितकलिमले !' क्षपितः कलिमलो यया सा तस्याः सम्बोधनं हे क्षपितकलिमले !-विघटितपापमले ! । अस्य भावनामाह श्रीकार नामगर्भ तस्य बाये षोडशदलेषु लक्ष्मीबीजमालिख्य निरन्तरं ध्यानमानं पिङ्गलादिद्रव्यैः सौभाग्यं भवति ।
द्वितीयः प्रकार:-षट्कोणं अस्य चक्रमध्ये ऐकारस्य नामगर्भितस्य बाधे क्लीकारं दातव्यम् । बहिरपि सौ संलिख्य कोणेषु ॐ क्ली क्ल्ह्री हा ही ही संलिख्य मायाबीजं त्रिविधमायावेष्टय निरन्तरं स्मर्यमाणे काव्यशक्तिर्भवति ।
अथ तृतीय प्रकारः
षट्कोणं चक्रमध्ये ऐं क्लीं ह्रौ नाममध्ये, ततः कोणेषु ॐ ह्रीं क्ली द्रवे नमः, ॐ ह्रीं क्ली द्रावे नमः, ओ ह्री धंदे नमः, औं ही द्रवे नमः,
ॐ ह्रीं द्रवे नमः, ॐ ह्री दावे नमः, ओ ही पद्मिनी नाम आलिख्य 'बहिरष्टदलेषु मायाबीजं दातव्यम् । बाह्येषु षोडशदलेषु कामाक्षरबीजं दातव्यम् , बाह्येषु ह्रौं संलिख्य बहिरष्टदलाने मायाबीजं संलिख्य मध्येषु
ॐ ॐ को हो जयाय नमः, विजयाय नमः, अजिताय नमः, अपराजिताय नमः, जयन्ती नमः, विजयन्ती नमः, भद्रायै नमः, ओ हा जो ह्रा शान्तायै नमः आलिख्य बाह्ये मायाबीजं त्रिगुणं वेष्ट्य माहेन्द्रचक्राङ्कितं चतु:कोणेषु लकारं लेख्यम् । ... इदं चक्रं कुङ्कुमगोरोचनादिसुगन्धि द्रव्यैर्भूर्जपत्रे संलिख्यं सा मूलविद्या॥ ___ ॐ आ का ही धरणेन्द्राय ह्रीं पद्मावतीसहिताय को है ही फुट् स्वाहा श्वेतपुष्पैः पञ्चाशत्सहस्रप्रमाणानि एकान्तस्थाने मौनेन जापेन दशांशहोमेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org