________________
रचितवृत्तियुतम् ]
पद्मावत्यष्टकम् ।
सर्व
(
हाँकारबीजमुच्यते, हीकारना मगर्भ, तस्य बाह्येषु षोडशदलेषु मायाबीजं संलिख्य धारयेत् । मायाशब्देन मायाबीजमुच्यते, सप्त लक्षाणि जपेत्, कार्यसिद्धिर्भवति । पुनरपि कीदृशे ? मायाजीमूतमाला कुहरितगगने ! माया एव जीमूताः मायाजीमूताः तेषां माला मायाजीमूतमाला, तया कुहरितं गगनं यया सा मायाजीमूतमालाकुहरितगगना, तस्याः सम्बोधनं क्रियते मायाजीमूतमालाकुहरितगगने ! - हीकारजलधर निकुरम्बगर्जिताम्बरे ! इत्यर्थः ॥
इदानीं मायानामगर्भितस्य बहिरष्टपत्रेषु ह्रीकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे लिखिखा हस्ते बद्ध्वा सर्वजनप्रियो भवति॥१॥ मायाबीजं नामगर्भितस्य बहिरष्टपत्रेषु हाँकारं दातव्यम्, कुङ्कुम गोरोचनया भूर्जपत्रे लिखित्वा धारयेत् । बालानां शान्तिकरी रक्षा ॥२॥
८१
एतद्
यथा, मायानाविद्धं एतद्बहिरष्टदलेषु मायाबीजं दातव्यम्, यन्त्रं कुङ्कुममोरोचनया भूर्जपत्रे सुगन्धिद्रव्यैः संलिख्य बाहौ धारणीयं सौभाग्यं करोति ॥ ३ ॥
ॐ नमो भगवति ! पद्मावति ! सूक्ष्मपद्मधारिणी पद्मसंस्थिता देवी प्रचण्डदोर्दण्डख ण्डितरिपुचक्रे ! किन्नर - किंपुरुष - गरुड - गन्धर्वयक्षराक्षस - भूतप्रेत-पिशाच-महोरग-सिद्ध-नाग - मनुजपूजिते ! विद्याधरसेविते ! हाँ हाँ पद्मावति ! स्वाहा ।
एतन्मत्रेण सर्षपमभिमन्त्रयेदेकविंशतिवारान् वामहस्तेन बन्धनीयम्, सर्वज्वरं नाशयति, भूतशाकिनीज्वरं नाशयति ॥
ॐ नमो भगवती पद्मावती अक्षिकुक्षीमण्डनी उज्जयन्तवासिनी पूर्वद्वारं . बन्धामि, आग्नेयद्वारं बन्धामि, दक्षिणद्वारं बन्धामि नैर्ऋतद्वारं बन्धामि, पश्चिमद्वारं बन्धामि, वायव्यद्वारं बन्धामि, उत्तरद्वारं बन्धामि, ईशानद्वारं बन्धामि, अधोद्वारं बन्धामि ऊर्ध्वद्वारं बन्धामि, वक्त्रं बन्धामि,
९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org