Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तान्युत्तराध्ययनाष्टादशाध्ययनतो बुधैः । ज्ञेयानि ग्रन्थवाहुल्यात्, नाक्तान्यत्र मया पुनः ॥ ३६ ॥ इति श्रीमुद्रित—ऋषिमण्डलवृत्तित उद्धृता श्री संयतराजर्षिकथा संपूर्णः ६४ श्री अनाथीमुनिकथा सिद्धान् साधून् नमस्कृत्यानुशिष्टिमर्थ ( ये ) धर्म गाम् । कथ्यमानां मया तथ्यां, शृणुतोत्तमदेहिनः ! ॥ १ ॥ श्रेयःश्रेणिर्नृपः श्रेणिकाख्योऽन्येद्युर्बहिर्ययौ । अश्ववाहनिकाक्रीडार्थं चैत्ये मण्डिकुक्षिके ॥ २ ॥ तस्मिन् नानाद्रुमाकीर्णे, कानने नन्दनोपमे । साक्षाद् धर्ममिवाद्राक्षीत्, मुनीन्द्रं इतले नृपः ॥ ३ ॥ रूपं वीक्ष्यास्य भृजानिस्तेजोऽतिक्रान्तभास्करम् । स विस्मयमना जज्ञे, तुष्टाव स्पष्टयन् वचः ॥ ४ ॥ अहो ! रूपमहो ! वर्णोsहो ! आर्यस्यास्य सोमता । अहो ! क्षान्तिरहो ! मुक्तिरहो ! भोगेष्वसङ्गता ॥ ५ ॥ नृपस्तस्य क्रमान् नत्वा कृत्वा तिस्रः प्रदक्षिणाः । नाऽऽसन्ने नातिदूरे (र) स्थः, पप्रच्छेदं कृताञ्जलिः || ६ || तारुण्ये भोगकाले त्वं, प्रात्राजीश्रोत्थितो व्रते । एनमर्थमहं तावत् शृणोम्यनु तवोदितम् ॥ ७ ॥ मुनिराख्यदनाथोऽस्मी ! नाथो मे न विद्यते । न कञ्चिदपि पश्यामि सुहृदं चानुकम्पकम् ॥ ८ ॥ ततः प्रहसितो राजा, श्रेणिको मगधाधिपः । एवमृद्धिमतस्तेऽत्र, कथं नाथो न विद्यते १ ॥ ९ ॥ भुङ्क्ष्व भोगान् मुने ! नाथो, भयत्राणं भवामि ते । मित्र- ज्ञातिपरिवृतो, मानुष्यं हि सुदुर्लभम् ॥ १० ॥ मुनिराहाऽऽत्मनैव त्वमनाथः श्रेणिकाऽसि भोः ! | आत्मनैव ह्यनाथः सन् कस्य नाथो भविष्यसि १ ॥ ११ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269