Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 259
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा जेवः ॥११६॥ श्री अति - क्तकमुनि कथा क्षिप्त्वा पतद्ग्रहं तत्र, दण्डेन प्रणुदन् ब्रुवन् । ममेयं नौरहं कर्णधारश्चिक्रीड सोऽम्भसि ॥ ८३ ॥ स्थविरैर्मधुरैर्वाक्यनिषिद्धः क्षुल्ल ! किं त्वया । मुग्ध ! दुग्धमुखारब्धमकल्प्यमिति वादिभिः ॥ ८४ ॥ तत् श्रुत्वा सोऽधिकं हीणो, जीवाजीवानभिज्ञधीः । विलक्षास्यो निवृत्तोऽस्मात्, नृणां लज्जैव भूषणम् ॥८५॥ पप्रच्छुः स्थविरा वीरं, भवः कतिपयैर्गमी । शिवं शिशुरसौ स्वामिन् !, जलक्रीडादिलोलुपः? ॥ ८६ ॥ प्रभुराह भवेऽत्रैव, सेत्स्यत्येष महाशयः । न कार्याऽऽयरतो गर्दा, गर्हिस्यापि चाऽऽहतैः ॥ ८७॥ वैयावृत्यं व्यधुः सम्यक् , ततोऽर्हद्वचसाऽस्य ते । पात्रं प्रीणाति हि स्वान्तं, तादृशं वचसा किमु ? ॥ ८८॥ पपाठकादशाङ्गानि, सोचिरात् स्थविरान्तिके । स्वर्णपात्रे न(ण) को भिक्षां, क्षिपेत् क्षेमाभिलाषुकः ? ॥ ८९ ॥ ज्ञात्वाऽऽयुश्चात्मनः स्वल्पं, स तेपे दुस्तपं तपः । चतुर्थषष्ठाटमादि द्रढीयःकर्मकर्त्तनम् ॥ ९ ॥ गुणरत्नसंवत्सराभिधं चाऽऽरब्धवांस्तपः । गीतार्थसार्थमुख्योऽर्थसाधनार्थ्यतिदुष्करम् ॥ ९१॥ अस्थि-चर्मावशेषाङ्गः, स उग्रतपसाऽभवत् । यथा यथा तथा भङ्गानकं मोहपुरेऽपतत् ॥ ९२ ॥ आवतात् सप्तवर्षान्ते, सोऽवधीत् मुनिकेसरी । चतुष्कपायकलभसुलभं मोहदन्तिनम् ॥ ९३।। तज्जयात् साधुवादादिवादिनी केवलाऽवला । वरमालां गलेऽझेप्सीत् , श्रीनन्दनमुनेच्दा ।। ९४ ॥ जैनाद्(न) जैन निशम्यामलवचनमलं श्रीसुतं श्रीसुनोव्हो !, बुवा वध्वादिसङ्गानभिमुख हदयो योऽवधीदात्मशत्रुम् । पष्ठेऽन्दे प्राप्य दीक्षां श्रुतमपठदथाब्दद्वयं सप्तवर्षी तामाराध्याऽतिमुक्तस्त्रिदशसमसमायुगतः सिद्धिसौधम् ।।९५॥ इति श्री मुद्रित ऋषिमण्डलप्रकरणवृत्तितः उद्धृता श्री अतिमुक्तकमुनिकथा संपूर्णा 善識藥鱗器鉴聯藤藤藤藤器蒸器端盜號號號聯號號樂器器 ॥११६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269