Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra 364658********** www.kobatirth.org केयूराण्यभवन् बाह्वोः पादयोन् पुरान् पुनः । ग्रीवायां ग्रीवाभरणं, शस्त्रघाताश्च तत्तनौ ॥ ८१ ॥ ततस्तदद्भुतं राज्ञे, विज्ञप्तमधिकारिभिः । सतन्त्रो विस्मयस्मेरस्तत्रागात् पार्थिवः स्वयम् ॥ ८२ ॥ दिव्य सिंहासनासीनं नानालङ्कृत्यलङ्कृतम् । कल्पवृक्षमिवैक्षिष्ट, साक्षाद् भूपः सुदर्शनम् ॥ ८३ ॥ ततः सर्वाङ्गमालिङ्गय, सानुतापं वहन् मनः । ऊचे पुण्यात्मनैकेन, मत्पुरं शोभतेऽधिकम् ॥ ८४ ॥ हा ! धिग् विचारशून्यस्याज्ञस्याऽज्ञानं ममेदृशम् । स्त्रीणां वचसि विश्वासो यः कुर्यात् स करोतु हा ! ||८५ || दिष्टा स्वदृष्टया दृष्टोऽसि, श्रेष्ठिन् ! जीवन् स्वकर्मभिः । इत्याद्युक्त्वाऽवदद् भूपः, क्षमस्वाऽऽगो महाशय ! ||८६|| पट्टेभस्कन्धमारोप्य, ततो राजा सुदर्शनम् । उद्यजयजयारावमानयद् राजमन्दिरम् ॥ ८७ ॥ जनस्तां वर्द्धयामास, हर्षोत्कर्षात् मनोरमाम् । धार्मिके ! पारयोत्सर्ग, क्षेमेणाऽऽगात् पतिस्तव ॥ ८८ ॥ निर्बन्धेन नृपपृष्टः, श्रेष्ठी तथ्यमचीकथत्। सोऽवगचीकरः सर्वं तर्ह्येवमब्रुवंस्तदा ॥ ८९ ॥ अभयानिग्रहे क्रुद्धं श्रेष्ठी विज्ञप्य पार्थिवम् । अभयं दापयामास, पीडितोऽपीक्षुरु (स) द्रसः ॥ ९० ॥ सत्कृत्य दिव्यवस्त्राद्यैर्बहुमानपुरस्सरम् । प्राहिणोद् गजमारोप्य, पार्थिवः श्रेष्ठिनं गृहे ॥ ९१ ॥ जिनधर्मानुभावं तद्, वीक्ष्य साक्षात् क्षमापतिः । पिपासुरिव पीयूषेऽर्हद्धर्मे प्रेमवानभूत् ॥ ९२ ॥ स्वभयादभया राज्ञी, स्वमुद्रन्ध्य व्यपद्यत । परस्मिचिन्तितं पापं प्रायः पतति चाऽऽत्मनि ॥ ९३ ॥ कारागारादिवासारात्, संसारात् श्रीसुदर्शनः । विरक्तात्मा परिव्रज्यामुपादत्तैकचित्ततः ॥ ९४ ॥ पण्डिता पाटलीपुत्रे, देवदत्तान्तिके गता । तत्पुरो वर्णयत्यस्य, शीलदादर्थं मुनेर्भृशम् ॥ ९५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 266 267 268 269