Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ १११ ॥ ******* www.kobatirth.org इति श्रुत्वा प्रभुं नत्वा, जग्मतुस्तौ त्रिविष्टपम् । भुक्त्वा देवभवायुष्कं पूर्वमेकस्ततयुतः ॥ ७१ ॥ उत्पदे मिथिलापुर्वी, जयसेनमहीपतेः । प्रियायां वनमालायां पुत्रः पद्मरथाह्वयः ॥ ७२ ॥ यौवने जनको राज्यं, दयास्मै व्रतमग्रहीत् । पुष्पमालाप्रिययामा, स भोगान् बुभुजेऽधिकम् ॥ ७३ ॥ द्वितीयोऽपि ततत्वा, पुत्रो धार्मिकि ! तेऽभवत् । हृतः पद्मरथोऽन्येद्युर्वक्रशिक्षितवाजिना ॥ ७४ ॥ ताटव्यामटभागादद्य प्रातस्तवाऽऽत्मजम् । दृष्ट्वा पूर्वभवस्नेहात् मुदितात्मा तमाददे ।। ७५ ।। पदानुसारतस्तस्यात्रान्तरे सैन्यमागतम् । सतन्त्रो गजमारुह्य, राजाऽगाद् राजमन्दिरम् ॥ ७६ ॥ प्रियायै पुष्पमालायै पालनायार्पितः सुतः । सवर्द्धापिनकं वर्द्धमानोऽस्ति तद्गृहे सुखम् ॥ ७७ ॥ यावत् मुनिरिदं वक्ति, तावदेकं नभस्तलात् । विमानरत्नमुत्तीर्णं द्युतिद्योतितदिकतटम् ॥ ७८ ॥ किङ्किणीकाणमुख, स्वःस्त्रीघुष्टजयस्वरम् । स्वच्छस्फटिकनिर्यूह, मुक्ताजालकरम्बितम् ॥ ७९ ॥ [ युग्मम् ] तदन्तर्निर्ययौ देवः कुण्डलालङ्कृतश्रुतिः । किरीटसुभगाकारस्तारहारमनोहरः || ८० ॥ स त्रिः प्रदक्षिणीकृत्य, कामरेखां नमोऽकरोत् । पश्चात् मुनिं नमस्कृत्योपविष्टः पुरतो मुनेः ॥ ८१ ॥ वैपरीत्यं तदालोक्य, खेचरः सुरमन्त्रवीत । अहो ! प्ररूपिता राजनीतयश्चामरैर्नृपैः ॥ ८२ ॥ लुम्पन्ति तास्त एवात्र, कस्याये कथ्यते ततः ? । इति श्रुत्वा सुरोऽवोचत् सत्यमेतत् परं शृणु ॥ ८३ ॥ सुदर्शनपुरे पूर्वमासीत् मणिरथो नृपः । तद्भाता युगवाह्वाह्नः, स तूद्याने गतोऽन्यदा ॥ ८४ ॥ केनचित् पूर्ववैरेण, कन्धरायां हतोऽसिना । भ्रात्रा (ता) मणिरथेनाथ, धर्मदेशनयाऽनया ।। ८५ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीनमिराजर्षिकथा ॥ १११ ॥

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269