Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RANEEEEEEEEEEEE***
शुद्धस्पण्डिलभूमौ स, विधिना चूर्णयन् भृशम् । मोदकान् भावनां दध्यौ, स दण्डणमुनिर्यथा ॥ ३५ ॥ शुक्लथानानलेनाशु, कर्मदारू दहन्मुनिः । क्षणमात्रेण सम्प्राप्तः, केवल ज्ञानमुज्ज्वलम् ।। ३६॥ देवैः स्वर्णाम्बुजं तत्र, विहितं सहसा मुनिः । देशनां प्रददौ स्थित्वा, तदृष्ट्वा विस्मिता जनाः ॥ ३७॥
७८ श्री नमिराजर्षिकथा अस्तीह भ[भा]रते वर्षेऽबन्तीजनपदेऽद्भुतम् । पुरं सुदर्शनाभिव्य, निर्जितस्वःपुरं श्रिया ॥१॥ राजा मणिरथस्तत्र, युवराइ युगवाहुकः । पिया मदनरेखाऽस्य, रूप-लावण्यदीपिका ॥ २॥ तस्याश्चन्द्रयशाः सूनुरनूनगुणसेवधिः! राजा मदनरेखायां, रागादिदमचिन्तयत् ॥ ३ ॥ चेद् रेमे नैतया साधं, तदा मे निष्फलं जनुः । ततस्तदर्थमेतस्यै, प्रेषीत् पुष्प-फलादिकम् ॥ ४ ॥ ज्येष्ठप्रसाद इति सा, निर्विकारा तदाददे । अन्येधुर्मदनरेखां, रहो मणिरथोत्रदत् ॥ ५ ॥ भद्रे ! मां पुरुषत्वेन, प्रपद्य स्वामिनी भव । मद्राज्यस्येति साध्वोचत्, पुंस्त्वमस्त्येव पार्थिव ! ।। ६ ॥ स्वकर्मणैव पण्ड-स्त्रीभावशून्यस्य ते पुनः । स्वामित्वं युवराट्पल्याः , कः क्षमो हनुमत्र मे ? ॥ ७॥ युग्मम् अन्यच्च मृत्युमिच्छन्ति, सन्तोऽकृत्यं न कुर्वते । तत् त्यज त्वं महाराजाकार्य भजस्व सत्पथम् ।। ८ ।। तत् श्रुत्वा चिन्तितं तेन, पाप्मना मामियं ध्रुवम् । नेच्छति भ्रातरि सति, हन्मि तं स्यात् ततो मतम् ॥९॥ अन्येधुर्मदनरेखा, स्वमे दृष्ट्वा निशाकरम् । भर्नुराख्यच्च सोऽप्याह, प्रिये ! भाव्यद्भुतः सुतः ॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269