Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PANEERNMENERREEEEEEEEEEERel
मोदकासक्तचित्तोऽसौ, नष्टसंज्ञो गृहे गृहे । धर्मलाभपदस्थाने, जगाद सिंहकेसराः॥५॥ एवं सर्व दिन प्रान्त्वा, रात्रौ च भ्रमति स्म सः । आचारं स्वं निसस्मार, मोदकानेव चिन्तयन् ॥ ६॥ भ्रमतोऽस्य व्यतीयाय, रजनीपहरद्वयम् । ततः श्राद्धगृहें गत्वा, प्रोवाच सिंहकेशराः॥७॥ अभ्युत्थानादिकं कृत्वा, श्रावको हृद्यचिन्तयत् । अतर्कितमकाले च, मुनेरागमनं कथम् ॥ ८॥ क्षपकोऽद्यैव दृष्टोऽसा,-चप्रमत्तो मया पुरा । धनादिपूरितं गेहं, त्यक्त्वा प्रबजितोऽतृषः॥९॥ गीतार्थश्चाप्ययं साधु,-स्तदा रात्राविहागतौ । को हेतुस्तन्न जानामि, सहसेत्थमभूत्कुतः ॥१०॥ दोपानस्य सतो वच्मि, श्राद्धत्वं स्यान्च्युतं तदा । किश्चागम्यं चरित्रं मे, महतां योगिनां सदा ॥११॥ परीक्षा किन्तु कार्या मे, किमस्ति हृदये मुनेः । विचिन्त्यैवं पुनर्दध्यौ, श्रावको धर्ममानसः ॥ १२॥ विषयाभिमुखी नास्य, चेष्टा नेहा धनेष्वपि । वस्त्रेणाच्छादितास्योऽसौ, भाषते काम्यति क्रमात् ॥ १३ ॥ अतो मूलगुणस्याय, घातको नैव दृश्यते । किन्त्वाहाराभिकासाऽस्ति, ज्ञायते चेष्टितैः ! स्फुटम् ॥१४॥ एवं विचार्य सुस्वाद, मिष्टानं विविधं पुरः । मुनेही कितवान् भक्त्या, श्रावको मतिमान् द्रतम् ॥ १५ ॥ नेदं मर्माहमित्येवं, निषिध्धे मुनिना पुनः । श्राद्धो दध्यावयं साधु, र्नास्ति मार्गच्युतो मनाक् ॥ १६ ॥ किन्त्वस्याभिग्रहः कोऽस्ति, ज्ञायतां तत्कथं मया । प्रवेशसमयेऽनेन, गदितं सिहकेसराः॥ १७ ॥ प्रायोऽलाभेन तस्यास्या नष्टं चित्तमभूद्धृवम् । इत्थं विचार्य चित्तेऽसौ, श्रावको मुनये इतम् ॥ १८ ॥ भाजनं मोदकैः पूर्ण,-मुपदौक्यावदत्ततः । गृहोत्वाऽनुग्रह साधो !, कुरु त्वं सिंहकेसरान् ॥ १९ ॥
会继器等器器端端端整器器聚幾號幾號器继器齡器鉴器:
For Private and Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269