Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 14
________________ जइ-जीयकप्पो 'दंसण' त्ति । दर्शनप्रभावकानि प्रमाणशास्त्राणि प्रमेयरत्नकोशादीनि गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धोऽप्रायश्चित्त इत्यर्थः ।१। माण' त्ति । ज्ञाननिमित्तं सूत्रमर्थं वाऽधीयन्नसंस्तरे अकल्प्याऽऽसेव्यपि शुद्धः ।२। घरित्ते' त्ति । यत्र क्षेत्रे एषणादोषः स्त्रीदोषो वा ततः क्षेत्राच्चारित्रार्थिना निर्गन्तव्यम् , निर्गच्छंश्चाक्षमत्वादकल्प्याऽऽसेव्यपि शुद्धः ।३। सवे'त्ति । तपः करिष्यामीति घृतादि पिबेत्, कृते वा विकृष्टतपसि मासक्षपणादौ पारणके लाजातरणादि पिबेत्, तीर्यत इवास्यामतिस्वच्छतयेत्यधिकरणे अनटि तरणं लाजा-भृष्टा वीहयस्तैर्निर्वृत्तं तरणं लाजातरणम् उपचारात् पेयाऽभिधीयते तां पिबेत् । यद्वाआधाकर्मादि तस्मै दद्यात् माऽन्येन शीतान्नादिना रोगोऽभूत्, शर्कराऽऽमलकादयो वाऽस्य यतनया पारणके दीयन्ते, परं शुद्धः ।४। पवयण' त्ति । प्रवचनार्थं किञ्चित् प्रतिसेवमानः शुद्धः । यथा कोऽपि राजादिर्भणेत् मम विषयान्निर्गच्छतेति । ततस्तद्दण्डार्थमुपक्रमते । यथा विष्णुकुमारमुनिना लक्षयोजनप्रमाणं शरीरं कृतं लवणोदधिश्चलनाभ्यामालोडितः ।५। समिइ'त्ति । समितिहेतोः, ईर्यासमितिर्न शुद्ध्यतीति, चक्षुर्निमित्तं वैद्योपदेशादौषधादिपानं कुर्यात् । कथमपि चित्तव्याक्षेपादिसम्भवे मा भाषासमितावसमितो भूवमिति तत्पशमनार्थमौषधादि पिबेत् । एषणासमित्यै कदाचिदसंस्तरेऽनेषणीयमपि गृह्णीयात् । एषणादोषेषु वा शङ्कितादिषु सत्स्वसंस्तरे गृह्णीयात् । दीर्घाऽध्वप्रतिपत्तौ वाऽध्वकल्पं प्रतिसेवेत् । अयं भावार्थःसम्प्रत्यल्पदोषमिदमनाददानः पश्चाद् ग्लानत्वादिभावे माऽऽधाकर्मादि बादरमनेषणीयं ग्रहीषम् । आदाननिक्षेपसमित्यै कश्चित् कम्पवातादिना कम्पमानकरोऽन्यत्र प्रमार्जयत्यन्यत्र वस्तु निक्षिपत्यतस्तत्पशमनार्थमौषधादि विदध्यात् । पारिष्ठापनिकासमित्यै स्थण्डिलाभावे कायिकी संज्ञां वा कदाचिदक्षमतया पृथिव्यादीन् विराधयन्नपि कुर्वीत, मा ममेदानी कायिक्याद्याबाधया मृत्युर्भूत् । जीवन् पुनरिमां समिति यथावस्थितां पालयिष्यामीति ।६। गुत्तिहेउं वा' गुप्तिहेतोः कदाचिद् विषमातङ्कादौ अनन्यौषधसाध्ये वैद्योपदिष्टं विकटं स्वल्पमेवाऽऽसेवते । माऽहं वैकल्यान्मनोवाक्कायैरगुप्तो भूवमिति ।७। साधर्मिकवात्सल्यमाश्रित्य किञ्चिदकल्प्यं प्रतिसेवेत । यथा आर्यवैरिस्वामिभिरशिखाकमुण्डः पटेऽधिरोप्य दुर्भिक्षान्निस्तारितः। न चैतत्कर्तुं कल्पते साधूनाम् । यदुक्तम् - सहेवाऽसंजयं धीरो आस एहि करेहि वा । सय चिट्ट वयाहित्ति नेवं भासिज्ज पण्णव' ।। (दशवै०७/४७) मिति ।८। कुलगणसङ्घकार्येषु समुत्पन्नेषु वशीकरणोच्चाटनाभिचारादीनि राजादिकमुद्दिश्य प्रयुङ्क्ते, चूर्णयोगादीन् वा करोति ।९-११। आचार्यऽसहिष्णुग्लानबालवृद्धादीनां च येन समाधिर्भवति तत्कार्यम् ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 226