Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 13
________________ जई - जीयकप्पो निषदनं न कल्पते । अपवादतः पुनः कस्यचित् कल्पते । यदुक्तं श्रीशय्यंभवमिश्रैः'तिण्हमन्नयरागस्स निसिज्जा जस्स कप्पई । जराए अभिभूअस्स वाहिअस्स तवस्सिणो' ।। (दशवै ० ६ / ६० ) एते च भिक्षाटनं न कार्यन्त एव परमात्मलब्ध्यपेक्षया सूत्रे त्रयस्योपवेशनमुक्तम् । ४ । स्नानम् अङ्गप्रक्षालनम्, सर्वतो देशतोऽप्यकल्पम् । ५ । शोभावर्जनं नखकेशसंस्कारादिविभूषात्यागः । ६ । इत्यष्टादशस्थानलक्षणं प्रतिसेवनीयम् । प्रतिसेवना च द्विधा - दर्पिका कल्पिका च । आकुट्टिप्रमादसेवने च सत्यावपि न विवक्षिते । दर्पाकल्पसाध्यत्वादाकुट्टेः । प्रमादस्यापि दर्पजन्यत्वादनयोर्दर्षिकाख्यायामाद्यप्रतिसेवनायामेवान्तर्भावः । साचाद्या दशधा तद्यथा 'दप्प - अकप्प - निरालंब चिअत्ते अप्पसत्थ-वीसत्थे । अपरिच्छि अकडजोगी निरणुत्तावी अ निस्संके' ।। (व्य० सू० ४४४२, जी० भा०५८९, गु०वि०२/१९) तत्र दर्पो धावनडेपनादिः । धावनं निष्कारणमतित्वरितमविश्रामं गमनम् । डेपनं गर्त्तवरण्डादीनां रयेणोल्लङ्घनम् । आदिशब्दान्मल्लवद् बाहुयुद्धकरणलगुड भ्रमणादिग्रहः 19 | अकल्पः पृथिव्यादिकायानामपरिणतानां ग्रहणम्उदकार्द्रसस्निग्धसरजस्काभ्यां हस्तमात्रकाभ्यामादानम् । अगीतार्थोत्पादिताहारोपधिपरिभोगः । पञ्चकादिप्रायश्चित्तयोग्यमपवादविधिं त्यक्त्वा गुरुतरदोषसेवनं चेति । २ । निरालम्बो ज्ञानाद्यालम्बनं विनाऽपि निष्कारणमकल्पिकासेवनम्, यद्वा-अमुकेनाऽऽचरितमतोऽहमप्याचरामीति । ३ । 'चिअत्ते' त्ति । त्यक्तकृत्यः त्यक्तचारित्रः, अपवादेनाऽसंस्तरे ग्लानादिकारणे वा यदकल्प्यमासेवितं पुनस्तदेव संस्तरेऽपि निवृत्तरोगोऽप्यासेवते । ४ । अप्रशस्तो प्रशस्तेन भावेन बलवर्णाद्यर्थं प्रासुकमपि भुआनः किं पुनरविशुद्धमाधाकर्मादि ? । ५ । विश्वस्तः प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षात् श्रावकादेः परपक्षान्मिथ्यादृष्ट्यादेर्न बिभेति । ६ । 'अपरिच्छिअ' त्ति । अपरीक्षक उत्सर्गापवादयोरायव्ययावनालोच्य यः प्रतिसेवते । ७ । अकृतयोगी ग्लानादिकार्ये गृहेषु त्रिः पर्यटनरूपं योगं व्यापारमकृत्वैव योऽनेषणीयमासेवते । यथा असंस्तरादौ त्रीन् वारानेषणीयार्थं पर्यटिताशेषगृहेणाप्यप्राप्तैषणीयेन चतुर्थवेलायामनेषणीयं ग्राह्यमित्येवं व्यापारमकृत्वैव प्रथमद्वित्रिवेलास्वप्यनेषणीयं गृह्णाति स तथा | ८ | निरनुतापी अपश्चात्तापी, यः साधुरपवादेनापि सङ्घट्टनपरितापनोपद्रवान् कृत्वा नानुतप्यते । यथा हा ! मया दुष्ठु कृतमिति । यस्तु दर्पेणाप्यासेव्य नानुतप्यते किं तस्य उच्यते ? । ९ । निश्शङ्को निरपेक्षः, अकार्यं कुर्वन् कस्याप्याचार्यादेर्नाऽऽशङ्कते नेहलोकस्यापि बिभेतीत्यर्थः । १० । एषा दर्पिका प्रथमा प्रतिसेवना । द्वितीया कल्पिका प्रतिसेवना चतुर्विंशतिधा । तद्यथा ९ १० दंसणनाणचरित्ते तव-पवयण- समिइ - गुत्तिहेउं वा । साहम्मि अवच्छल्लत्तणेण १३ १५ १६ २२ २३ २४ कुलओ गणस्सावि ।। य असहस्स गिलाण बालवुड्ढस्स । उदयग्गिचोरसावय भयावई ।। ( व्य०सू० ४४४४-४४४५, जी०भा० ६०१ ६०२, गु०वि० २ / २०-२१ ) ११ १२ संघस्सायरि अस् A. पूज्यै : --- ૪

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 226