Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 12
________________ जइ - जीयकप्पो श्रुतव्यवहारश्चाऽऽचाराङ्गादीनामष्टमपूर्वान्तानामेव । यदुक्तम्- 'आयारपकप्पाई सेसं सवं सुअं विणिहिट' मिति (व्यवहारभाष्ये) ।अत्राह कश्चित्-किमष्टमपूर्वान्तमेव श्रुतम्, नवमपूर्वादीनां न श्रुतत्वम्? उच्यते-आगम्यन्ते परिच्छिद्यन्तेऽतीन्द्रियाः पदार्था येन स आगम इति व्युत्पत्तेर्नवमपूर्वादीनां श्रुतत्वाऽविशेषेऽपि केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः । शेषश्रुतस्य तु नातीन्द्रियार्थेषु तथाविधोऽवबोधस्ततोऽस्मिन् श्रुतव्यवहारः । इदानीं चाऽऽगमव्यवहारिणामभावे समयानुसारेणोत्कृष्टतमश्रुतानां श्रुतव्यवहारिणां सन्निधावालोच्यते । आज्ञाव्यवहारस्तु कावपि गीतार्थावाचार्यों सम्यगधीताशेषसूत्रार्थों क्षीणजङ्घाबलो दवीयोदेशवासिनौ परस्परेणोपान्तमागन्तुमक्षमौ तयोरेकः प्रायश्चित्तं जिघृक्षुरगीतार्थशिष्यं मतिधारणाकुशलं सन्दिष्टवस्तुनयनसमर्थमागमभाषया गूढान्यपराधपदानि कथयित्वा लिखित्वा वा समर्प्य मन्दमेधसं शिष्यं द्वितीयाऽऽचार्यसमीपे प्रस्थापयति, सोऽपि तथैव गूढपदैः प्रायश्चित्तं कथयित्वा लिखित्वा वा समर्प्य प्रेषयति, एष आज्ञालक्षणः तृतीयो व्यवहारः । तदुक्तं- 'देसंतरहिआणं गूढपयालोअणा आणा' । आलोचना च प्रतिसेवकस्य प्रतिसेवनीयप्रतिसेवनातः स्यात् । तत्र प्रतिसेवकः साध्वादिः । प्रतिसेवनीयं च व्रतषट्कादीन्यष्टादशस्थानानि । तद्यथावयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलिअंक निसिज्जा य सिणाणं सोहवज्जणं ।। (व्य०सू० ४४४०, जी०भा० ५८७) व्रतषट्कं प्राणातिपातविरत्यादिमहाव्रतपञ्चकं रात्रिभोजनविरतिषष्ठम् । कायषट्कं पृथिव्यादयः षड्जीवनिकायाः। षट्कद्वयेन मूलगुणा उक्ताः । एतवृतिकल्पाश्चाऽकल्पादयः षडुत्तरगुणाः । तत्राऽकल्पो द्विविधः-शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च । तत्राऽऽद्योऽनधीतपिण्डनियुक्त्यादिशास्त्रसाधुना समानीतमाहारादि साधुभ्यो न कल्पते । उक्तं च'अणहीआ खलु जेणं पिडेसणसिज्जवत्थपाएसा । तेणाणिआणि जइणो कपंति न पिंडमाईणि' ।। उउबद्धंमि न अनला वासावासे उ दोवि नो सेहा । दिक्खिज्जंती पायं (सेह) ठवणाकप्पो इमो होइ ।। आद्या गतार्था । द्वितीयस्याश्चायमर्थः-ऋतुबद्धे शीतोष्णकालमासाष्टके अनला अयोग्या नपुंसकादयो न दीक्षार्हाः। वर्षाकाले तु 'दोवि' त्ति । द्वावपि योग्याऽयोग्यौ शैक्षौ न कार्याविति शेषः । शिक्षकस्थापनाकल्पाख्योऽकल्पः । द्वितीयश्चाऽनेषणीयपिण्डशय्यावस्त्रपात्रलक्षणोऽकल्प उद्गमादिद्विचत्वारिंशद्दोषरहितस्यैव कल्पनीयत्वात् ।१। गृहिभाजनं गृहस्थसम्बन्धि स्थालतलिकादिकमकल्पम् ।२। 'पलिअंक' त्ति । आसन्दकशय्यामञ्चकादावुपवेष्टुं स्वप्तुं वा दुष्प्रतिलेख्यत्वात् साधूनां न कल्पते ।३। 'निसिज्ज' त्ति । भिक्षार्थं गृहप्रविष्टस्य साधोरुत्सर्गतस्तत्र

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 226