Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 10
________________ इजीको त्थु समस्स भगवओ महावीरस्स ।। श्री आत्म-कमल-वीर-दान- प्रेम - रामचन्द्र भद्रंकर - कुंदकुंदसूरिसद्गुरुभ्यो नमः ।। साधुशिरोमणि - साधुरत्नसूरिविहितवृत्तियुतः तपागच्छाधिराज - श्रीसोमप्रभसूरिप्रणीतः जइ - जीयकप्पो जयति महोदयशाली भास्वाञ्श्रीवर्धमानतीर्थपतिः । विशदं चरणपथं सा तपस्थितिर्यदुदिता तनुते । । १ । । जयति प्रवचनदीपः प्रतिहतदुरपोहमोहतिमिरौघः । चित्रं निरञ्जनोऽयं जगति गुणग्रामवृद्धिकरः।।२।। सकलत्रिलोकविस्मयविधायिनिस्सीमधीगुणातिशयान् । बहुविधलब्धिसमृद्धान् निखिलानपि गणधरान्नौमि ।।३।। प्रणमामि विश्रुतश्री - जिन भद्रगणिक्षमाश्रमणमुख्यम् । सङ्क्षिप्तजीतकल्पं महाश्रुताद्यः समुद्दध्रे ।।४।। श्री सोमप्रभसूरीन् गुरूत्तमान् स्तौमि विश्रुतातिशयान् । सुविहितहिताय विहितः सव्यासो यैरसावेव ।। ५ ।। श्रीसोमतिलकसूरीन् वन्दे विख्यातवैभवाभ्युदयान् । यैरस्य जीतकल्पस्याऽऽतेने वृत्तिरतिविशदा । । ६ ।। मन्दमतिबोधहेतोरतिगहनमहागमावगाहनया । कालानुभाववशतो व्युच्छिन्ना सा तदैव परम् ।।७।। युग्मम् ।। जगति जयन्ति गरिष्ठा गुरवः श्रीदेवसुन्दरमुनीन्द्राः । सम्प्रति निष्प्रतिमगुण - प्रभाप्रभावाद्भुता विदिताः । । ८ । । ये निजवचनसुधाअन - वशेन शिष्यस्य मादृशस्यापि । उद्घाटयन्ति लोचनमान्तरमज्ञानतिमिर भृतम् ।।९।। तस्याः पुनरालेखे चित्रकलाकौशलेन विकलोऽपि । तैः स्वविनेयकनिष्ठो -ऽप्यादिष्टोऽयं ततो यतते ।।१०।। यद्यपि साहसमेवं कुर्वन् हास्योऽस्मि तदपि किं कुर्वे । यन्मामत्र प्रसभं प्रेरयति गुरुप्रसादोऽयम् ।।११।। इह दुःषमान्धकारनिमग्नजिनप्रवचनप्रदीपायमान - श्रीजिनभद्रगणिक्षमाश्रमणविरचितो जीतकल्पोऽतिसङ्क्षिप्तः । निशीथभाष्यादिछेदग्रन्थाश्चातिमहान्तो दुरवगाहाश्च । अतः साध्वनुग्रहाय पूज्यश्रीसोमप्रभसूरयः किञ्चित् विस्तरप्रायश्चित्तविधिप्रतिपत्तये प्रायो जीतकल्पनिशीथाद्यन्तर्गतगाथाभिरेव यतिप्रायश्चित्तविभागाविर्भावकं जीतकल्पनामकं प्रकरणं चिरन्तनजीतकल्पात् किञ्चित् समधिकगाथाकदम्बकं कृतवन्तः । परं द्विधा विनेयाः– योग्या अयोग्याश्च । तत्र योग्या ये रङ्गत्संवेगतरङ्गिणीतरङ्गप्रक्षालिताऽऽन्तरमला ः परिमलितबुद्धयः समस्तसिद्धान्तमहार्णवपारीणाः परिणतवयसः सार्वपथीनप्रतिभाप्राग्भारसारचेतसः सततमुत्सर्गापवादगोचराऽऽचारचतुराश्चिरप्रव्रजिताः । ये त्वेतद्विपरीताः तिन्तिणिकादयश्चाग्रतो वक्ष्यमाणस्वरूपाः तेऽयोग्याः । एतेषामयं जीतकल्पो न दातव्यः । यतः - 'आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेई ।। (नि० भा० ६२४३)

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 226