________________
जइ-जीयकप्पो 'दंसण' त्ति । दर्शनप्रभावकानि प्रमाणशास्त्राणि प्रमेयरत्नकोशादीनि गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धोऽप्रायश्चित्त इत्यर्थः ।१। माण' त्ति । ज्ञाननिमित्तं सूत्रमर्थं वाऽधीयन्नसंस्तरे अकल्प्याऽऽसेव्यपि शुद्धः ।२। घरित्ते' त्ति । यत्र क्षेत्रे एषणादोषः स्त्रीदोषो वा ततः क्षेत्राच्चारित्रार्थिना निर्गन्तव्यम् , निर्गच्छंश्चाक्षमत्वादकल्प्याऽऽसेव्यपि शुद्धः ।३। सवे'त्ति । तपः करिष्यामीति घृतादि पिबेत्, कृते वा विकृष्टतपसि मासक्षपणादौ पारणके लाजातरणादि पिबेत्, तीर्यत इवास्यामतिस्वच्छतयेत्यधिकरणे अनटि तरणं लाजा-भृष्टा वीहयस्तैर्निर्वृत्तं तरणं लाजातरणम् उपचारात् पेयाऽभिधीयते तां पिबेत् । यद्वाआधाकर्मादि तस्मै दद्यात् माऽन्येन शीतान्नादिना रोगोऽभूत्, शर्कराऽऽमलकादयो वाऽस्य यतनया पारणके दीयन्ते, परं शुद्धः ।४। पवयण' त्ति । प्रवचनार्थं किञ्चित् प्रतिसेवमानः शुद्धः । यथा कोऽपि राजादिर्भणेत् मम विषयान्निर्गच्छतेति । ततस्तद्दण्डार्थमुपक्रमते । यथा विष्णुकुमारमुनिना लक्षयोजनप्रमाणं शरीरं कृतं लवणोदधिश्चलनाभ्यामालोडितः ।५। समिइ'त्ति । समितिहेतोः, ईर्यासमितिर्न शुद्ध्यतीति, चक्षुर्निमित्तं वैद्योपदेशादौषधादिपानं कुर्यात् । कथमपि चित्तव्याक्षेपादिसम्भवे मा भाषासमितावसमितो भूवमिति तत्पशमनार्थमौषधादि पिबेत् । एषणासमित्यै कदाचिदसंस्तरेऽनेषणीयमपि गृह्णीयात् । एषणादोषेषु वा शङ्कितादिषु सत्स्वसंस्तरे गृह्णीयात् । दीर्घाऽध्वप्रतिपत्तौ वाऽध्वकल्पं प्रतिसेवेत् । अयं भावार्थःसम्प्रत्यल्पदोषमिदमनाददानः पश्चाद् ग्लानत्वादिभावे माऽऽधाकर्मादि बादरमनेषणीयं ग्रहीषम् । आदाननिक्षेपसमित्यै कश्चित् कम्पवातादिना कम्पमानकरोऽन्यत्र प्रमार्जयत्यन्यत्र वस्तु निक्षिपत्यतस्तत्पशमनार्थमौषधादि विदध्यात् । पारिष्ठापनिकासमित्यै स्थण्डिलाभावे कायिकी संज्ञां वा कदाचिदक्षमतया पृथिव्यादीन् विराधयन्नपि कुर्वीत, मा ममेदानी कायिक्याद्याबाधया मृत्युर्भूत् । जीवन् पुनरिमां समिति यथावस्थितां पालयिष्यामीति ।६। गुत्तिहेउं वा' गुप्तिहेतोः कदाचिद् विषमातङ्कादौ अनन्यौषधसाध्ये वैद्योपदिष्टं विकटं स्वल्पमेवाऽऽसेवते । माऽहं वैकल्यान्मनोवाक्कायैरगुप्तो भूवमिति ।७। साधर्मिकवात्सल्यमाश्रित्य किञ्चिदकल्प्यं प्रतिसेवेत । यथा आर्यवैरिस्वामिभिरशिखाकमुण्डः पटेऽधिरोप्य दुर्भिक्षान्निस्तारितः। न चैतत्कर्तुं कल्पते साधूनाम् । यदुक्तम् - सहेवाऽसंजयं धीरो आस एहि करेहि वा । सय चिट्ट वयाहित्ति नेवं भासिज्ज पण्णव' ।।
(दशवै०७/४७) मिति ।८। कुलगणसङ्घकार्येषु समुत्पन्नेषु वशीकरणोच्चाटनाभिचारादीनि राजादिकमुद्दिश्य प्रयुङ्क्ते, चूर्णयोगादीन् वा करोति ।९-११। आचार्यऽसहिष्णुग्लानबालवृद्धादीनां च येन समाधिर्भवति तत्कार्यम् ।