Book Title: Iryapathiki Shatrinshika Author(s): Jaysomgani Publisher: Jinduttsuri Gyanbhandar View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पच्छा सो इडिपत्तो सामाइयं करेइ अणेण विडिणा- 'करेमि भंते! सामाइये सावज्जं जोगं पचरुखामि दुविहं तिविहेणं जाव नियम पज्जुवासामिति एवं सामाइयं काऊण पडितो बंदिता पुच्छति, सो य किर सामाइयं कुर्णतो मउ अवणेति कुंडलाणि णाम मुद्द पुफतवोलपाचारणमादि वोसिरइ" इत्येवं श्रीहरिभद्रसूरिभिश्चतुर्वपि स्थानेषु सामायिकाधिकारे ऋद्धिमासानृद्धिमाप्तयोः श्रादयोः सामायिकदण्डकपाठादव्यवहित एवेर्यापथिकीपाठः स्पष्टीकृतः, तथा (पत्र २३) पञ्चाशकवृत्तिर्यथा "अनेन विधिना गत्वा त्रिविधेन साधून्नत्वा सामायिकं करोति 'करेमि भंते! सामाइयं सावज्जं जोगं पचख्खामि जाब साहू पज्जुवासामि दुविहं तिविहेणं' इत्याद्युच्चारणतः, तत ईर्यापथिकायाः प्रतिक्रामति, पश्चादालोच्य बन्दते आचार्यादीन् यथारात्रिकतया, पुनरपि गुरुं वन्दित्वा मत्युपेक्ष्य निविष्टः पृच्छति वा पठति वा, एवं चैत्येष्वपि यदा तु स्वगृहे पौधशालायां वा तदा गमनं नास्ति, यः पुनर्ऋद्धिप्राप्तः स सर्वद्वर्धा याति तेन जनस्यास्था भवति, आहताच साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि त्वसौ कृतसामायिक एति तदाऽश्वहस्त्यादिभिरधिकरणं स्यात्तच्च न वर्त्तते कर्त्तुमित्यसौतन करोति तथा कृतसामायिकेन पादाभ्यामेवागन्तव्यमिति च तन्न करोतीति, तथा ययसौ श्रावकस्तदा तं न कोऽप्यभ्युत्तिष्टति, अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वरचितमासनं क्रियते, आचार्याश्रोत्थिता एवासते, मोत्थानानुत्थानकृता दोषा अभूवन् पश्चादसादृद्धिमाप्तश्रावकः सामायिकं करोति, कथं ? 'करेमि भंते! सामाइयं सावज्जं जोगं पञ्चख्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामि' इत्यादि, एवं सामायिकं कृत्येय प्रतिक्रान्तो वन्दित्वा पृच्छति वा पठति वा, स च किल सामायिकं कुर्वन् कुण्डले नाममुद्राञ्चापनयति, पुष्पताम्बूलप्रावारादिकं च व्युत्सृजतीत्येष विधिः सामायिकस्येति गाथार्थः” इति श्रीपञ्चाशकत्तावप्यस्मत्परमगुरवः श्रीमदभयदेवाचार्याः सर्वत्र सामायिकाधिकारे सामायिकदण्डकपाठानन्तरमेवेर्यौ निजगदुः, अथ नवपदप्रकरणविवर णे For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58