Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra ईथीकी पत्रिंशिका ॥७॥ (www.kobatirth.org न चेर्यायाः कारणत्वं सामायिकस्य च कार्यत्वं तत्तच्छास्त्रेषु तस्याः (ईर्यायाः) सामायिकात्पूर्ववर्त्तित्वस्यानवबोधनात् महानिशीथ वाक्यस्य तु सामायिकविशेषविषयत्वेन जघन्यचैत्यवन्दनायानिवात्राप्यनवकाश इत्यर्थस्य समर्थ्यमानत्यात् पूर्ववत्तित्वाभावे च कारणत्वमपि ईर्यायाः न सम्प्रतीतस्याऽविरुद्धं भाति, न च सामायिकस्य कारणसमीर्यायाः कार्यत्वं ईयर्थ मया सामायिकमङ्गीक्रियत इति प्रतीतेरभावात् रात्रिपपधिक श्राद्धकृतसामायिके तस्याः पञ्चाद्वृत्तित्वाभावाच्च तथा च सामायिकवते कथं सा सार्थका भवेत् ?, तत्राह - 'स्वाध्यायादीनां' स्वाध्यायवन्दनकोपविशनादीनां 'सा' ईर्यापथिका 'हेतुः ' कारणं, तत्र हेतुमाह-पूर्वापरभावात्, तथा चैर्यायाः कारणत्वं स्वाध्यायादीनां कार्यत्वं, सर्वशास्त्रेषु तस्याः स्वाध्यायादीन्यति नियतपूर्ववर्त्तित्वस्य पूर्वाचार्यैरुद्बोधनान्महानिशीथवाक्येन तान्यति तस्या अनन्यथासिद्धत्वस्यापि प्ररूपणात्, तथा चेर्यापथिकी स्वाध्यायादिकृत्येभ्योऽव्यवहिता कृत्यान्तरेण व्यवहिता वा पूर्व वर्त्तमाना स्वाध्यायादिकृत्यकारिणी भवतीति भावः, तत्रावश्यकनृत्याद्यभिप्रायेणाव्यवहिता सा स्वाध्यायादिकृत्यसाधिका नवपदविवरणाभिप्रायेण तु चैत्यन्दनेनान्तराऽपि सा तत्कार्यकारिणी भवतीति भावः तथा च पौषधोच्चारनिमित्तं उपकरणप्रतिलेखनानिमित्तं वा प्रतिक्रान्ताऽपि ईर्या स्वाध्यायादिकृत्यकारिणी भवति क्रियान्तरव्यवहिताऽपि एतावता च विपक्षविवक्षितार्द्धजरतीयदोषोऽपि दुरापास्त एव । ननु तर्हि पौषध इव सामायिकेऽपि पूर्वमतिक्रान्तैव सामायिकपोतिका प्रतिलेखन सामायिकदण्डकपाठमात्रेण सान्तराऽपीर्या कथं न स्वाध्यायादिकार्यसाधिका भवेत् ?, तत्र तेषु तेषु स्थानेषु सामायिकविधेः पौषधविधेव पार्थक्यदर्शनात्तथा च नास्माकमत्र कदाग्रहोऽस्ति यदुत सर्वत्र सामायिकोच्चारादन्वेवेर्या, • " For Private And Personal Use Only Acharya Shri Kalassagarsuri Gyanmandir , १ " सामायिक प्रति तस्याः विरुवं नापि सामायिकस्य कारणत्य" इति प्रत्यन्तरे । २ कदमण स्वमतस्थापनेकयद्धकक्षत्यादावश्यक चूर्णिवृत्तिका दिनहुश्रुताभिप्रायेण पि विरुद्धः पक्षो विचारो यस्य स विपक्षः धर्मसागरस्तेन स्वकृतेपिथिकीपद्विशिकाया एकोनविंशतितमगाथाया अवतरणिकायां खरतर जय सोमीया ॥ ७ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58