Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsun Gymandir विज़म्भितमिदमिति दिङ्मात्र, अलं प्रसङ्गेनाथ प्रकृतं प्रस्तुमः ॥२९॥ अथ स्वमतिकृतनव्यार्थानां निरतिशयानामनर्थ विभावयन्नाह सीसम्मि अकाऊणं, अत्थस्स परूवगं गुरुं गीयं । जो परिकप्पइ अत्थे, सो साइसयो व सच्छंदो ।३०॥ - व्याख्या--'अर्थस्य प्ररूपक' अर्थप्रकाशकं शिरसि अकृत्वा 'गीतं गीतार्थ गुरुं' तत्त्वोपदेष्टारं यः स्वमत्या अर्थ आगमार्थं परिकल्पयति स'सातिशयो विशिष्टज्ञानवानात्माऽऽगमादिः 'वा' अथवा 'स्वच्छन्दः स्वेच्छाचारी-सपिशदः सम्यक्त्वादिगुणविकलो ज्ञेय, एतावता यो यमाग्रही परम्परायातमर्थ विमुच्य स्वमत्या प्रज्ञावलेपावलिप्तचित्तो नव्यमर्थ प्ररूपयति स स्वच्छन्दो विज्ञेयो, न तु सातिशयो, जातिस्मृतिविशिष्टश्रुतकेवलाद्यतिशयाभावात, तदभावत्वं तु साम्पतमुभयवादिसिद्धमेव, कदाग्रह एवात्र निवन्धनमिति, आग्रहिकअनाग्रहिकयोरयं विशेषः, तथा चाहुः पूज्यपादाः "आग्रही बत निनीपति, युक्तिस्तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तियत्र तत्र मतिरेति निवेशम् ।।" इत्यार्षमाकलय्य नव्यार्थप्ररूपणां परिहर, गीतार्थाचरणामाचरेति शिष्टोक्तिः॥३०॥अथ गीतार्थाचरिताया आचरणाया अपि पामाण्यं समर्थयबाह-RA लाभविसेसं जाणिय, रागदोसाइदोसनिरविख्खा । किंचिवि समायरंता, गीया आराहगाणेया।३१। व्याख्या-'गीता'इति गीतार्थाः 'किश्चित् कृत्यविशेष 'अपि' एवकारार्थः, स पुरस्सम्बध्यते, 'समाचरन्तः सम्यग्यतनया आचरन्तः | समाचरन्तः, सूक्ष्मेक्षिकया किश्चित्कुर्वन्तोऽपि आराधकाः ज्ञेयाः, एवकारेण ज्ञानदर्शनचारित्राणां जिनाज्ञायाश्चेति योज्य, किं कृत्वा ?, ES 'लाभविशेष विज्ञाय' एकस्मात्सामान्यलाभादन्यो विशिष्टो लाभो लाभविशेषस्तं विज्ञाय-विशिष्टज्ञानेन विषयीकृत्य, किं विशिष्टाःगीतार्थाः?, 'रागद्वेषादिदोषनिरपेक्षा रागश्च द्वेषश्च रागद्वेषौ, तावादी येषां ते रागदेषादयस्ते च ते दोषाच रागद्वेषादिदोपास्तेषु निर्गता अपेक्षा येषां ते रागद्वेषादिदोषनिरपेक्षा, एवम्भूताः गीतार्थाः किश्चित्समाचरन्तोऽप्याराधका इति भावार्थः, एतावता च शुद्धमेधाजितमुरसूरिभिः For Private And Personal use only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58