Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
न इत्थियाए असुइभावा | १|" इत्यष्टादशगाथाप्रमितपूर्वाचार्यकृतविधिविचारसारकुलकेऽपि पूर्वाचार्या अपि तथैवोक्तवन्तः, न हि तेषां गुरूणां जिनपूजां कुर्वाणाः स्त्रियः स्नानादिकृत्येन शीतकाले मा भूवन् दुःखिता इति स्त्रीषु रागोऽङ्गपूजामात्र निषेधकारणं, उष्णकाले स्नानादिना सुखस्यापि तासु सम्भवात्, यदि शीतकाले एव तास जिनपूजा तैर्निषिद्धा भवेत्तदा रागमूलकखमपि तन्निषेधे भवेत्, मौलमसिद्धप्रतिमाव्यतिरिक्तानां जिनप्रतिमानां पूजायास्तासु साक्षादेवानिषेधान्मौलजिनप्रतिकृतिपूजायाः निषेधाच, नापि जिनप्रतिमासु द्वेषात्तैः स्त्रीणां पूजा निषिद्धा, स्थाने स्थाने विधिचैत्ये विधिपूजायास्तैः प्रशंसितत्वात्, अविधिपूजाप्रतिषेधे त्वविधावेव विद्वेषः, तद्वेषस्य न्याय्यत्वेन नोक्तदोषः, नापि स्त्रीषु जिनपूजाजनितफलं माऽभूदिति द्वेषाद्वा पूजा निषिद्धा, सुगन्धिधूपाक्षतकुसुमप्रकरदीप नैवेद्यफलजलगीतनाट्यवाद्यादिविधिपूजानां तास्वनिषेधात् न च मालिन्यवदनिताजनितसंस्पर्शादधिष्ठायकापगमो मा भूदिति जिनप्रतिमासु रागान्निषिद्धेति प्रतिबन्दी दोषावहा, इष्टापत्तेः तद्रागस्य गुणकारणत्वात् यदाहुः "अरहंतेसु अ रागो, रागो साहू बंभयारीसु । एस पसत्थो रागो, अन्नत्थ रागो ण साहूणं । १।" तत एव गुरूणां वेगविघातजनितार्त्तिनिवृत्यै रागाद्वन्दनादेरपि निषेधस्यागममूलकत्वमप्यभ्यूह्यमिति, तथा च सातिशयमौलजिनप्रतिमानां जिनशासनोन्नतिकारिकाणामकालसमुद्भूतमालिन्यभावेन दूषितायाः योषितः करस्पर्शेनाधिष्ठायकदेवताऽपगमो मा भूदिति लाभविशेषमाकलय्य सातिशयमौलजिनप्रतिमासु तासां स्पर्शेन तैः पूजा निषिद्धेति सिद्धं, तस्याश्वाधिष्ठात्देवताऽपगमे च विशिष्टपूजाऽयोगान्न भविकानां जिनमतिमादर्शनेऽपि विशिष्टा निर्जरा म्लेच्छादिभिर्भङ्गसम्भवाच्च, सातिशयप्रतिमायाः जिनशासनोन्नतिकारकत्वं सिद्धमेव, प्रतिमापूजाकर्तॄणां स्त्रीणां यद्यपि लाभोऽस्त्येव परं प्रतिमातोऽधिष्ठायकापगमे वांछितैहिकार्यापूर्त्तेजैनास्था पूजाऽपगमेनालाभस्य बहुत्वं स्यात्, बहु व्ययपरिहारार्थमल्पलाभपरिहारस्यापि प्रवृत्त्यङ्गखात् तेन लाभालाभविशेष विभावन
For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58