Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shin Kasagarsun Gymandir ईर्यापथिकी पत्रिंशिका ॥१५॥ साक्षादेवोक्तं, तद्यथा "मुखवत्रिका प्रत्युपेक्षणपूर्वं च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्य"मिति. अनृद्धिमाप्तस्य श्राद्धस्य | खरतर जयपुनः साधुसमीपे सामायिकमङ्गीकुर्वतोऽयं विधिः, तथा (२४४ पत्रे) “यथासम्भवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्व 'करेमि भंते ! सोमीया सामाइयं सावज जोगं पञ्चख्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामी'त्याधुच्चार्य-पथिकी प्रतिक्रम्य यथारानिकतया सर्वसाधूथाभिवन्द्य प्रच्छनादि करोति" इति वाक्याच पूर्वमकृतसामायिकस्यापि ऋद्धिप्राप्तश्राद्धस्य सामायिककरणविधौ तत्रैव वृत्तौ पुनरप्ययं विधिरुक्तः, तथा च त्रिसप्तत्यधिकसहस्रवर्षे श्रीदेवगुप्तमरिविरचिताऽपरचिरन्तननवपदप्रकरणस्वोपझलघुविवरणेऽपि (४२ पत्रे) "प्रथम साध्वादिसमीपे मुखवस्त्रिका प्रत्युपेक्ष्य विधिना सामायिकं करोति" इति वाक्याच्चानृद्धिमाप्तस्य सामायिक विधौ साधुसमीपेऽयमेव विधिः, एवं मुखवत्रिकाप्रत्युपेक्षणपूर्वकमेव सामायिककरणमुभाभ्यां साक्षादेवोक्तं, नेर्यापथिको प्रतिक्रमणपूर्वकमिति, तथा चेदानीन्तनश्राद्धाचरणेन कथं तेषामाशयानुमानं भवेत् ?, नन्वियं मुखपोतिका प्रतिलेखनोपकरणप्रतिलेखनामध्यगता भविष्यति, न सामायिकनिमित्तका, मुख-पत्र वखिकापादपोञ्छनपतिलेखनायाः सामायिकपूर्वकत्वमस्माकमप्यभिमतमिति चेन, अहो यौक्तित्वं !!, उपकरणप्रतिलेखनामन्तरेण गृहे कथं तेन सामायिकं कृतं भविष्यति ?, गृहे कृतसामायिकस्य गुरुसमीपमायातस्य सामायिककरणविधिरप्यत्रोपात्त एव, न केवलमकृतसामायिकस्यद्धिप्राप्तस्यैव, तस्मानिर्णीतमेतद्यत्कृतसामायिकस्यैतन्मुखपोतिकाप्रतिलेखनं नोपधिप्रतिलेखनामध्यगतं, किन्तु सामायिक निमित्तकं एव, “एकत्र दृष्टो न्यायः सर्वत्रोपयोगी भवतीति न्यायादृद्धिप्राप्तस्यापि पोतिकाप्रतिलेखनं सामायिकग्रहणनिमित्तकमेव, नोपकरणप्रतिलेखनामध्यगतं, तुल्ययोगक्षेमत्वात् , अन्यथा त्वीवित्पूर्वमुक्ता स्यात , तत्पूर्वकत्वात्तस्याः, तस्मात्सामायिक मुखपोतिकाप्रत्युपेक्षणपूर्वकमेव नेर्यापथिकीप्रतिक्रमणपूर्वक ग्रायं, यदि च सामायिकमीर्यापथिकीमतिक्रमणपूर्वकं तैरङ्गीकृतमभविष्यत्तदा मुखवत्रिका For Private And Personal use only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58