Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रत्यपादि, तस्यापि पदस्य गमन व्यावृत्तिरूपार्थकथनेनाप्यर्थसङ्गत्या सिद्धं नः समीहितं स्वस्थे चित्ते सबै भवतीति सामायिकेऽपि गमनव्यावृत्तिपूर्वकत्वमभिमतं तथा च वः समीहितं तृषितस्य मृगतृष्णाजलपानायोपक्रमे इवात्रापि न निष्पत्तिमायातं, तदेवं धर्मकीर्त्तिवाक्ये ईर्यायाः काल्पनिकोऽर्थंश्चेत्कल्प्यते तदा शिष्यवाक्येन गुर्वभिप्रायानुमानमिति युक्तिः प्रत्युक्ता स्यात्, यदि मुख्योऽर्थः स्वीक्रियते तदा " एकत्र दृष्टो न्यायः सर्वत्रोपयोगी भवती”ति दिनकृत्याद्यन्यसूत्रवृत्यादावपि स एवार्थोऽङ्गीकार्यो, नार्थान्तर मीर्याया अङ्गीकार्य, सोऽयमुभयतः पाशारज्जुरिति, तथा च मुञ्च कदाग्रह, स्वीकुरु सर्वसम्मतं सङ्गतमीर्यापथिकायाः स्वरूपार्थमिति | २७| अथ श्रीदशवेकालिकवृत्तिगतं श्रीमद्धरिभद्राचार्यवाक्यं समर्थयन्नाह
हरिभदायरियाणं, वयणं दसयालिअस्स वित्तीए । एमेव य सामन्नं, णेयं सुद्धिवि सुप्पसिद्धा |२८| व्याख्या–‘दसयालिअस्स'त्ति कालेन निर्वृत्तं कालिकं, प्रमाणकालेनेति भावः, दिनस्यान्त्य चतुर्घटिके दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दस्य लोपादशकालिकं, तस्य दशकालिकस्य, 'एकदेशविकृतमनन्यवदिति' न्यायाद्दशबैकालिकस्य वृत्तौ 'हरिभद्राचार्याणां याकिनीमहत्तराधर्मपुत्राणां जिनभट्टपादोपजीविनां 'वचनं' "इर्यापथिकीप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात्तदशुद्धतापत्ते” रित्येवंरूपमपि 'एमेव 'त्ति एवमेव महानिशीथवाक्यवत्सामान्यं च एवार्थः, 'सामान्यमेव' साधारणमेव, न विशेषरूपं प्रतिव्यक्तिवृत्तिः 'ज्ञेयं' ज्ञातव्यं, अत्रापि युक्तयस्ता एव योज्याः, 'शुद्धिरपि' मनोवाक्कायरूपा सामायिकदण्डको चारात्पूर्वमपीति योगः, 'सुप्रसिद्धा' विदितेति गाथार्थः, सूचितार्थस्तु अयं ननु सुहृद्भावेन प्रच्छामोऽत्र यदि श्रीहरिभद्राचार्यैरावश्यकविवरणे ईर्ष्या विनाऽपि सामायिकदण्डकाचारः स्यादित्यादृतं भवेत्तदा दशवैकालिकवृत्तावेतत्प्रतिपादितं भवेत्, यदुत 'सामायिकाधिकारे "सामायिकं कुर्वतः प्रतिक्रान्तेर्यस्य चित्ताशुद्धिर्भवति
For Private And Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58