Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kaligans Gymandir
ई-पथिकी पत्रिंशिका ॥१४॥
खरतर जयसोमीया
| 'प्रतिक्रामती' त्यस्य 'बइसणं संदिसावेमि, बइसणं ठाएमि' इति यत्कल्पनं तदप्यसज्जल्पनं, यदि ईर्यापथिकायाः काप्यागमे गमनार्थता भवेत्तदा 'प्रतिक्रामती'ति पदेन सह गमन निवृत्तिरूपार्थसम्पत्तेस्तत्कल्पनं स्यात् , न चैवं दृष्टमिष्टं वा शिष्टानां, तस्मात् “पच्छा इरियावहियाए पडिकमइ” इति पदं महानिशीथोक्तेर्यापथिकी निरूपकं, न निजमानसिककल्पनाविषयीकृतार्थस्थानक, ननु यदि न भवेदस्मत्कल्पितोऽर्थस्तदा सकलगच्छसामाचारीमसिद्धानां 'बइसणं संदिसावेमि' इत्यादिक्षमाश्रमणानां का गतिरिति चेन्न, "पडिलेहिता णिविठो पुच्छइ पढइ वा” इत्यादिभिः श्रीमदावश्यकत्तिचूादिवाक्यैरेव चरितार्थत्वात् , तद्यथा-"आणाए तवो आणाए, संजमो तह य दाणमाणाए" इति स्थविरवाक्येन गुरोराज्ञां विना ध्वस्थानं स्वाध्यायश्च कृतसामायिकस्य न शुद्धयेतां, तथा च तच्छुद्ध चै 'वइसणं संदिसावेमि, बइसणं ठाएगि' इति क्षमाश्रमणद्वयमुपविशनपदग्रहणेन सूचितं, 'सज्झायं संदिसावेमि, सज्झायं करेमि' इत्येवम्भूतक्षमाश्रमणद्वयं "पृच्छति पठति वे"ति पदाभ्यां सूचितं, तथा च समअसमिति गाथार्थः ।२१॥ अथ गुडजिहिकया पूर्वपक्षिणं प्रत्याह
तुह वयणेणं इरिया, पुब्बि पच्छा व सव्वगीयाणं । सामाइअपत्थावे, कारणभूआ विणो सरिआ ॥२२॥
व्याख्या-हे पूर्वपक्षिन ! 'तव' भवतो 'वचनेन' अनन्तरोक्तेन वाक्येन 'सच्चगीयाण'ति सर्वे च ते गीताश्च सर्वगीतास्तेषां सर्वगीतानांसर्वगीतार्थानां, एकस्य गीतार्थस्य कर्हिचित्पठनपाठनादिकृत्यविहस्ततया विधेयस्य विस्मृतिरपि भवेदिति तव्यावृपय 'सर्व' इति पदं । सप्रयोजक, 'पूर्व मिति सामायिकदण्डकादादी 'बा' अथवा 'पश्चात् सामायिकदण्डकानन्तरं 'सामायिकप्रस्तावे' नवमव्रताधिकारे 'कारणभ्रताऽपि' सामायिकस्वाध्यायादिकार्ययोर्भवदभिप्रायेण क्रमात्साधनभृताऽपि 'ईर्या' समयमसिद्धक्रियाविशेषरूपा 'न स्मृता' न स्मृतिगोचरं गतेति गाथाऽक्षरार्थः, भावार्थस्त्वयं-तवाभिमायेण सामायिक दण्डकपाठात्पश्चात्पाठसिद्धेर्या गमनव्यावृत्तिमूचिका, पूर्व तु सामायिका
१५
For Private And Personal use only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58