Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kasagarsuri Gyanmandir
चैत्यादिगमननैमित्तिकैर्यापतिक्रान्तिसत्कमेवागमनालोचनं, तच्छुद्धि निमित्ता वीर्या गमनालोचनयुक्ता पूर्वमेवानुमतेति चेन्न, पूर्वमेव दत्चीसरत्वात्, अत्र सामाचारीविशेषादिरूप एव विशेषः, यदिचूर्णिकाराभिप्रायवदन्येषामप्यावश्यकत्तिकारादीनां तथाऽभिप्रायोऽभविष्यत्तदा तेऽपि इत्थमेवालिखिष्यन् , ततः सामाचारी विशेषादिरूप एव तदभिप्रायनिबन्धनं, अपरश्च यदि पाठसिद्धेर्याप्रतिक्रमणं तदानन्तरिकमागमनालोचनं च चैत्यगमनागमननिमित्तकं स्यात्तदा नवपद(प्रकरणस्य)विवरणे ईर्याप्रतिक्रमणादनु “जइ चेइयाई अस्थि तो पढम चेइयाई वंदइ" इति पाठसिद्धं न भवेत् . निमित्ताभावे नैमित्तिकस्याप्यभावात् , ईर्यापथिक्याः पाठसिद्धायाश्चैत्यवन्दननैमित्तिकत्वस्वीकारात् , अत्र तु नैमित्तिकस्य निमित्तपूर्वकता दुष्करेति कफोणिगुडास्वादनप्रायमेव निमित्तनैमित्तिकत्वमनयोरिति दिक्, अपरञ्च नवपदप्रकरणबृहद्वि वरणकारेणैतत्पश्नावकाश एवाकाशकुशेशयीकृतस्तद्यथा "चैत्यगृहे तु यदि साधवो न सन्ति तदर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चत्यवन्दनां करोति, ततः पठनादिविधत्ते, साधुसद्भावे तु पूर्व एव विधिः" इति वाक्येन चैत्यगृहे साधुसद्भावेऽन्यत्र गमनाभावेऽपि ईर्याप्रतिक्रमणादन्वेवागमनालोचनं “पूर्व एव विधि"रिति वाक्यादाविष्कृतं, चैत्यानां समिपवत्तित्वेनान्यत्र गमनासम्भवात्तेन पाठसिद्धेर्या आगमनालोचनं च गृहादागमननिमित्तकमेव, न चैत्यान्तरगमननिमित्तक, आवश्यकचूर्णिकृताऽपि समीपस्थचैत्यवन्दनैव बोध्यते, न तु स्थान्तरस्थचैत्यवन्दना, न च साधोः समीपे चैत्यानवकाश इति वाच्यं. 'यदि'इति पदेन कादाचित्कत्वस्यैव सूचनं, इतरथा सार्वदिकत्वे 'यदि' इति पदं चूर्णिकृन्नालिखिष्यन् , कदाचितु तथाऽपि सम्भवात् , यदुक्तं व्यवहारचूणी-"जइ झ्यपरे ठिया वियालियं कालं पडिकतो अकए आवस्सए गोसे कए आवस्सए जइ चेइए न वंदइ ता मासलहू" इत्यादि, तथा च न तेन पूर्वमीर्याप्रतिक्रान्ता न चागमनमालोचितमिति, तेन सूक्ष्मेक्षिकया शुद्धिनिमिचेर्यायाः सामायिकदण्डकपाठात्पूर्व यत्पतिक्रमणानुमानं तद्गर्भश्रावेणेव गतं, तथा पाठसिद्धेर्यायाः
For Private And Personal use only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58