Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kasagarsur Gyli mandir
विषयत्वात् , तथा चावश्यकवृत्यायुक्तसामायिकमात्रविधिसूत्रं विशेषमूत्रमित्यायातं, 'एवं' इत्यल्पविषयत्वबहुविषयत्वादिप्रकारेण उत्सर्गापवादश्रुतं' उत्सर्गश्चापवादञ्च (उत्सर्गापवादरूप) यच्छ्रतं तदुत्सर्गापवादश्रुतं, तत् गीताना'मिति गीतार्थानां मुमसिद्धं, समयेऽपि तत्र तत्र स्थाने द्रव्यक्षेत्रादिनिमित्तनिरपेक्षत्वेन प्रवृत्तं सामान्यत्रतया प्रसिद्धमुत्सर्गमूत्रं, तथा द्रव्यक्षेत्रादिनिमित्तसापेक्षत्वेनाल्पविषयित्वाद्विशेषतया प्रसिद्धमपवादश्रुतं, उपलक्षणाच समस्तयतीनां साधारणतया सामान्यमूत्रं मासकल्पादिविहाररूपं, तथा पारिहारिकयथालन्दिका दिविशेषमुनिमुद्दिश्य "गामे इक्कराइयं णगरे पंचराइयं" इत्यादिरूपं विशिष्टसाधुविषयत्वाद्विशेषसत्रं च समयविदां विदितमेवेति गाथार्थः ॥१२॥ तथा च सामान्यसूत्रविशेषसूत्रयोरेकत्र साङ्कर्ये किमङ्गीकार्य ? तत्राह
सामन्ने य विसेसे, सुत्ते पत्ते विसेसविसयं जं । गीयाण लोइयाण य, तं सुत्तं बहुमयं तत्थ ।१३। व्याख्या-'सामान्ये बहुविषये अनेकव्यक्तिसाधारण इति यावत् , च पुन विशेषे च :अल्पविषये-एकव्यक्तिमात्रविपये इति यावत, मुत्रे प्राप्ते युगपदेकत्र स्थाने विषयतयाऽऽगते सति यद्विशेषविषय सूत्र-व्यक्तिमात्रगोचरं तत् तत्थति तत्र स्थाने 'गीतानां' सूत्रार्थविदा RET गीतार्थानां 'बहुमतं' सकल शिष्टैकवाक्यतयाऽभिमतं, तथा लौकिकानां वैयाकरणानां च सम्मतमित्येतदत्रापि योज्यं, प्रसिद्ध तत्तथाहि| गीता जिनकल्पिकस्थविरकल्पिक यथालन्दिकमतिमापतिपापारिहारिकप्रत्येकयुद्धादिसमस्तयतिगोचरे "तइयाए भिरूखायरिय "मित्यतस्मिन्सूत्रे प्रसिद्धेऽपि स्थविरकल्पिकानां "काले कालं समायरे" (दश० अ०५ उ० २ गा०४) इति विशेषसूत्र सुप्रसिद्धमेव गच्छवासितयोररीकृतमिति, वैयाकरणैरपि "सामान्यशास्त्रतो न्नं, विशेषो बलवान् भवेत्" इति वाक्यप्रामाण्यात् , इवोंवर्णयोः समान जातीयसम्बन्धे सामान्यसूत्रेण यत्ववत्वमाप्तौ सवर्णयोः स्वरयोः सम्बन्धे दीर्घत्वरूपविशेषस्त्रमङ्गीकृतमेव, इतरथा पदसिद्धिरूपपयोजना
For Private And Personal use only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58