Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kaligans Gymandir इपिथिकी पत्रिंशिका ॥८॥ खरतर जय| सोमीया 'निजसार्थविशेषपदपंक्ति'पुरः प्रस्थितात्मीयसार्थविशिष्टचरणपद्धति न जानन्ति, अपदीपाः इत्युपलक्षणं, तेन चन्द्रादिप्रकाशरहिता इति लेषार्थः, तथा च तेषामयमाशयः-'ईर्यापथिकायामप्रतिक्रान्तायां न कल्पत एव किञ्चिच्चैत्यवन्दना स्वाध्यायादि' इत्यागमवाक्येनास्माभिरेवमेव निरधारि यच्चैत्यवन्दकादिवत् किश्चिच्छब्दमूचितानि सर्वाण्यपि धर्मकृत्यान्यविनेर्यापथिकादिकान्येव, तेन सामायिकमपि तदादिकमिति पूर्वपक्षबीजमिति भावः इति गाथार्थः ।१०। अथ सैद्धान्तिको महानिशीथवाक्यसमर्थनाय सामान्यविशेषव्यवस्थां दर्शयन्नाह सामन्नं नूणमिणं, महानिसीहस्स छेयसुत्तस्स । वयणं बहुविसयाओ, णेयं सदाणुसासणओ ॥११॥ व्याख्या-'नूनं निश्चितं महानिशीथस्य छेदसूत्रस्य 'इणं' इत्येतद्वचनं' वाक्यं सामान्य, सामान्यमिति साध्यनिर्देशः तद्वचनमिति पक्षनिर्देशः, तत्र हेतुमाह-'बहुविषयत्वात्' बद्दचश्चैत्यवन्दनस्वाध्यायध्यानप्रतिक्रमणादिरूपाः क्रियाविषयीगोचराः विषयाः यस्य तहहुविषयं, तस्य भावस्तत्वं, तस्माद्बहुविषयत्वादिति हेतुः, यहहुविषयं तत्सामान्यं, सत्ता वत् , यत्सामान्यं न भवति तद्बहुविषयमपि न भवति, घटाद्यकव्यक्तिवदिति सव्याप्तिकमुदाहरणं ज्ञेय'मवसेयमिति, कस्मात् ?, 'शब्दानुशासनतः' शब्दानुशासने-व्याकरणेऽपि सामान्यसूत्रविशेषसूत्रव्यवस्थायां सामान्यसूत्रव्यवस्था तदवस्थैव, एवञ्च तत महानिशीथसूत्रस्यापि सामान्यत्वमिति भावो गाथार्थः । ११। एवं सामान्यसत्रस्वरूपमुपवये विशेषमूत्रव्यवस्थामाह पत्तेयं विहिसुत्तं, जं तं तु विसेसमप्पविसयाओ। उस्सग्गाववायसुर्य, एवं गीयाण सुपसिद्धं ।१२। व्याख्या-'तु'पुनय कचैत्यवन्दनस्वाध्यायादिषु सर्वधर्मकृत्येषु प्रत्येक चैत्यवन्दनाद्यन्यतमकृत्यं प्रति प्रति प्रत्येकं 'विधिसूत्र' तत्कर्त्तव्यार्थीपदेशरूपसूत्रं आवश्यकवृत्त्यादि, 'तद्विशेष' विशेषसूत्र ज्ञेयमिति योज्यं, अल्पविषयत्वात् , तदालापकोक्तसर्वधर्मकृत्येष्वन्यतमव्यक्तिमात्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58