Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jan Aathana Kendra
www.kobatim.org
Acharya Shri Kasagarsuri Gyanmandir
पश्चाशकचूर्युक्त्या कृतरात्रिपौषधस्य प्रातः पुनः सामायिकग्रहणे पूर्वमपि तस्या अङ्गीकारात् , तथा च तत्पाठः "तो राइए चरम जामे उहिऊण इरियावहियं पडिकमिय पुछि व पोति पेहिय नमुकारपुवं सामाइयमुत्तं कट्टिय संदिसाविय सम्झायं कुगइ" इति, तथा च यत्र यो विधिर्गीतार्थैर्निबद्धः स तथैव विधेय इति वस्तुगतिरिति गाथार्थः ।। एवं वस्तुव्यवस्थायां व्यवस्थापितायां यद्यप्यैर्दयुगीनगच्छव्यवस्थयोपासकानां सामायिके पूर्वमीयाँ प्रतिक्रामयन्तोऽपि गाढाभिनिवेशाभावेनेर्यापथिकाया अर्थान्तरत्वं स्वमत्या सो(शोधयन्तो (कुर्वन्तो) मध्यस्थाः गुरुपरम्परानुगताः सर्वेऽपि गच्छवासिनोऽस्माकं मान्या एव, परमीर्यापथिकेति पदस्य नव्यार्थकरणप्रवणा एव सर्वगच्छवासिनामिवास्माकमपि पूर्वपक्षिवयाऽभिमता, अतस्तत्पूर्वपक्षिस्वरूपं सोपालम्भमाह
केवि य महानिसीहे, सामन्नपयं समेच अपईवा । न मुणंति इरियाए, नियसत्थविसेसपयपंतिं ।१०। व्याख्या-केऽपि च 'महानिशीथे श्रीमहानिशीथसिद्धान्ते सामान्य-सर्वकृत्यसाधारणं "अपडिकंताए इरियारहियाए न कप्पइ चेव काउं किंचिवि, चियवंदणसज्झायझाणाइयं फलासायणमभिकंखुगाणं" इत्यादिरूपं यत्पदं सामान्यपद' तत्समेत्य' प्राप्य 'ईर्यायां' सामायिकवताधिकृतेर्यापथिकायां वाच्यायां, निजानि-आत्मीयानि, न तु नग्नाटानां, यानि शास्त्राणि-आवश्यकपश्चाशकवृत्यादीनि, तेषु यानि विशेषपदानि सामायिकवतमात्रगोचरतया "पच्छा इरियावहियाए पडिकमई" इत्येवंरूपाणि, तेषां या पंक्तिस्तां निजशास्त्रविशेषपदपंक्ति 'न मुणंति'त्ति न जानन्ति विद्यमानामपि, किम्भूतास्ते ?, 'अप्रदीपाः' प्रकृष्टो दीप इव प्रदीपः-प्रवचनं, न विद्यते प्रदीपो येषु तेऽपदीपा अनागमा इत्यर्थः । अथवा 'महानिशीथे महार्द्धरात्रसमये, च शब्दो अप्यर्थे, 'सामान्य समस्तसाधारणं यत्पदं स्थानं सार्थन्यासरूपं सामान्यपदं, तत् समेत्य प्राप्यापि-सार्थन सहैकस्थानावस्थिता अपि ईर्यायांसमीप्सितपुरं प्रति प्रस्थितौ सत्यां अभदीपा प्रदीपरहिता
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58