________________
R
अथ गुरुतत्त्वविनिश्चये तृतीयोल्लासः।
_ द्वितीयोल्लासे द्वारत्रिकेण व्यवहारविवेकः कृतः । अयं च सद्गुरोरत्यागेन कुगुरुवर्जनेन च स्थेमानमावहतीत्येतदर्थप्रतिपादकस्तृतीयोल्लास आरभ्यते, तत्रेयमाद्यगाथाइहपरलोएसु हिओ, सुववहारी गुरू ण मोत्तवो । अणुसिडिमुवालंभं, उवग्गहं चेव जो कुणइ ॥१॥ | 'इहपरलोएसु हिओत्ति । इह गुरुविषयाश्चत्वारो भङ्गा भवन्ति, तथाहि-इहलोकहितो नामैको न परलोकहितः १,
परलोकहितो नामको नेहलोकहितः २, एक इहलोकहितोऽपि परलोकहितोऽपि ३, एको नेहलोकहितो नाऽपि परलोक|हित इति ४ । तत्र यो वस्त्रपात्रभक्तपानादिकं साधूनां पूरयति न पुनः संयमे सीदतः सारयति स इहलोके हितो न पर
लोके १ । यःपुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति स स्फुटभाषी परलोके * हितो नेहलोके २ । यो वस्त्रपात्रभक्तपानादिकं समग्रमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके 5परलोके च हितः ३ । यस्तु न वस्त्रपात्रादिकं साधूनां पूरयति न च संयमयोगेषु सीदतः सारयति स नेहलोके हितो नापि
परलोके ४ । तत्र योऽनुशिष्टिमुपालम्भमुपग्रहं च करोति स इहलोकपरलोकयोर्हितः ‘सुव्यवहारी' समीचीनव्यवहारकारी & गुरुर्भवजलधियानपात्रमिति न कदाऽपि मोक्षार्थिना मोक्तव्यः, किन्तु कुलवध्वादिदृष्टान्तस्तस्यैवाश्रयणं कर्त्तव्यमित्यर्थः ।
सद्गुरोरत्यागोपदेशः गुरुविषयाचतुर्भगी
ANSAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org