Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 490
________________ स्वोपज्ञवृत्तियुतः चतुर्थी ॥ २१५ ॥ 'णिद्धंधसाण’त्ति । ‘निद्धन्धसानां' प्रवचननिरपेक्षप्रवृत्तीनां पार्श्वस्थादीनां 'पापवृद्धिकरं साधुत्वभ्रमजननद्वारा लोकानामात्मनां च क्लिष्टकर्मप्रवर्द्धकं 'प्रथमम्' अप्राधान्यलक्षणं द्रव्यत्वम्, सारविरहित बाह्यरूपस्याप्रधानत्वात् । 'द्वितीयं' भावहेतुत्वलक्षणं द्रव्यत्वं 'मार्गानुसारिणां संयमानुकूलप्रवृत्तिमतां संविग्नपाक्षिकाणाम् ॥ १५४ ॥ एतेषां मार्गानुसारित्वमेव समर्थयति मग्गाणुसारिणो खलु, संविग्गा सुद्धमग्ग कहणगुणा । इय एएसिं वयणे, अविगप्पेणं तहक्कारो ॥१५५॥ ‘मग्गाणुसारिणो’त्ति । ‘संविग्नाः' संविग्नपाक्षिकाः 'खलु' निश्चितं शुद्ध मार्गकथनगुणान्मार्गानुसारिणः । न हि चारित्ररूपशुद्धमार्गानुसारित्वं विना शुद्धमार्गकथकत्वं संभवति, 'इति' अनेन शुद्धमार्गकथनगुणेन हेतुना 'एतेषां' संविग्नपाक्षिकाणां वचनेऽविकल्पेन तथाकारः पञ्चाशकादौ प्रतिपादित इति शेषः ॥ १५५ ॥ इत्थं च भावनिर्ग्रन्थानामुग्रविहारिणां द्रव्यनिर्ग्रन्थानां च संविग्नपाक्षिकाणामुभयेषामपि यथायोगं गुरुत्वं तरतमभावेन संसिद्धमित्याहभावणियंठाण तओ, णेयं अविगप्पगज्झवयणाणं । संविग्गपक्खिआणं, दवणियंठाण य गुरुत्तं ॥ १५६ ॥ 'भाव' ति स्पष्टा । नवरम् -- ' अविगप्पगज्झवयणाणं ति अविकल्पतथाकारविषयवचनानामित्यर्थः, अयमेव गुणः साधारणगुरुत्वगमक इति भावः ॥ १५६ ॥ ननु यद्येवं द्रव्यनिर्ग्रन्थानां संनिपाक्षिकाणामपि गुरुत्वं व्यवस्थापितं तदा गुरुतत्त्वनिश्चयार्थमनेकगुणान्वेषणाऽकिञ्चित्करी, अकिञ्चित्करश्च तदर्थोऽयं प्रयासः इत्याशङ्कायामाह - For Private & Personal Use Only. Jain Education International गुरुतत्त्वविनिश्चयः ल्लासः भावनिर्म न्थसंविम पाक्षिकयो गुरुत्वम् ॥ २१५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540