Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
कर्मप्रकृतिः
॥ ३ ॥
भाषादिद्रव्याणि भाषादिनिसर्गार्थमालम्बत इति । तथा कार्यस्याभ्यासः - नैकट्यं परस्परं प्रवेशश्च - शृङ्खलावयवानामिवैकक्रियानियतक्रियाशालित्वं ताभ्यां विषमीकृताः प्रदेशाः येन तत् तथा । येषु कार्याभ्यासः तेष्वधिकं वीर्यमन्येषु चात्मप्रदेशेष्वल्पाल्पतरमित्यर्थः ॥ ४ ॥ अत्र एतानि द्वाराणि -
अविभाग- वग्ग-फड्डुग- अंतर- ठाणं परंपरोवणिहा । जोगे परंपरा - बुद्धि-समय- जीवप्पबहुगं च ॥ ५ ॥ अविभाग ति || अविभागप्ररूपणा १ वर्गणाप्ररूपणा २ स्पर्द्धकप्ररूपणा ३ अन्तरप्ररूपणा ४ स्थानप्ररूपणा ५ अनन्तरोपनिधा ६ 'योगे' योगविषये परम्परोपनिधा ७ वृद्धिप्ररूपणा ८ समयप्ररूपणा ९ ततो जीवानामल्पबहुत्वप्ररूपणेति १० ॥ ५ ॥
पन्नाछेयणछिन्ना, लोगासंखिजगप्पएससमा । अविभागा एक्केके, हुंति पएसे जहणेणं || ३ ||
पन्न त्ति || केवलप्रज्ञाछिन्ना अविभागा एकैकस्मिन् प्रदेशे लोकस्यासंख्येयकं - असंख्याता लोकाः तत्प्रदेशसमा जवन्येन भवन्ति । | उत्कर्षतोऽप्येतावन्त एव किन्तु जघन्यतोऽसंख्यातगुणाः ॥ ६ ॥
जेसिं परसाण समा, अविभागा सवओ अ थोवतमा । ते वग्गणा जहण्णा, अविभागहिआ परंपरओ ॥ ७ ॥ जेसिंति ॥ येषां प्रदेशानां समा अविभागाः सर्वतश्चान्येभ्यः स्तोकतमास्ते घनीकृतलोका संख्येयभागवृत्त्य संख्येयगत प्रदेश राशिप्रमाणाः समुदिता एका वर्गणा । 'परंपरतः' यथोत्तरं एकाद्य विभागाधिका वाच्याः ॥ ७ ॥
( एतावानेव संकलितोऽयं ग्रन्थः ! ! ! )
Jain Education International
For Private & Personal Use Only
लघुवृत्तियुता.
॥ ३ ॥
www.jainelibrary.org

Page Navigation
1 ... 536 537 538 539 540