Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 534
________________ अस्पृश द्वातिवादः COCCASEASEENUGROSCOR व्याघातः, तन्नियमाऽनुपगमे चैकहेलयैवाखिलान्तरालिकप्रदेशास्पर्शनेनैव सिद्धिक्षेत्रावगाहनोपपत्तावस्मदभिमताभ्युपगमप्रसङ्गः । न च 'एकस्मिन्नपि समयेऽखिलान्तरालिकप्रदेशस्पर्शनं दण्डकरणवदुपपत्स्यते' इति शङ्कनीयम , तथासति तदानीं तावतो दण्डस्यैव करणप्रसङ्गात् 'यावत्यैवावगाहनया जीवोऽवगाढस्तावत्यैवोर्द्ध गच्छति' इत्युक्तिव्याघातप्रसङ्गात् । इदमेव हि "उज्जुसेढीपडिवन्ने अफुसमाणगई एगसमएणं अविग्गहेणं उड़ गंता सागारोवउत्ते सिज्झइ" इति प्रज्ञापनासूत्रस्थले "अविग्रहेण-विग्रहस्य अभावोऽविग्रहः तेन एकेन समयनाऽस्पृशन्-समयान्तरप्रदेशान्तरास्पर्शनेनेत्यर्थः, अजुश्रेणिं च प्रतिपन्नः। एतदुक्तं भवति-यावत्स्वाकाशप्रदेशेष्विहाबगाढस्तावत एव प्रदेशानूई ऋजुश्रेण्याऽवगाहमानो विवक्षिताच समयादन्यत् समयान्तरमस्पृशन् गत्वा । तथा चोक्तमावश्यकचूर्णी-'जत्तिए जीवोsवगाढो तावतिआए ओगाहणाए उडु उजुगं गच्छइ, न वंक, वितिअं च समयं न फुसति ।" भाष्यकारोऽप्याह-"रिउसेढिं पडिवन्नो, समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ, अह सागारोवउत्तो सो॥ १॥” इत्यादिवृत्तिवचनममृतप्रायमपि निपीय समुत्पन्नस्य भ्रमविपस्य (स्यो) परममुत्पश्यामः, तावतामेव प्रदेशानामूर्द्धमवगाहनयाऽऽन्तरालिकप्रदेशास्पर्शनस्य स्पष्टमुपपत्तेः । न च सिद्धिक्षेत्रावच्छिन्नप्रदेशस्पर्शनेनाप्यस्पृशताव्याघातः, आन्तरालिकप्रदेशास्पर्श ने] नेवास्पृशत्ताविवक्षणात् । तदिदमुक्तं वादिवेतालेन श्रीमता| शान्तिसूरिणा-"अफुसमाणा गइ” इति अस्पृशद्गतिरिति नायमर्थः-यथा सर्वान आकाश[प्रदेशा]न स्पृशति अपि तु यावत्सु जीवोऽवगाढस्तावत एव स्पृशति न तु ततोऽतिरिक्तमेकमपि प्रदेशमिति ।” अत्र हि स्वावगाहातिरिक्तप्रदेशास्पर्शनेनैवास्पृशत्त्वमुपपादितम् । इत्थमेवाऽऽवश्यकचूर्णी-"उजुसेढिपत्तो जत्ति[आ]ए जीवो अवगाढो तावतिआए अवगाहणाए उड़े उजुगं गच्छइ, न वंकं, अफुसमाणगती बितिअं समयं ण फुसति; अह्वा जेसु अवगाढो जे अ फुसति उडमवि गच्छमाणो तत्तिए चेव आगासपएसे फुसमाणो ॥१॥ JainEducation international For Private Personal use only

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540