Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 487
________________ 'पचपवन्नत्ति । पूर्वप्रपन्नाः पुनः 'ते' स्नातकाः जघन्यकाः कोटिपृथक्त्वं भवन्ति, उत्कृष्टा अपि 'तथा' कोटिपृथक्त्वमेव । अयं पुनर्विशेषः-जघन्यात्पृथक्त्वात् 'इतरत्' उत्कृष्टं पृथक्त्वं प्रतिस्थानमुच्यमानमधिकं मन्तव्यमिति । आह चोत्तराध्ययनवृत्तिकृत्-"इह च जघन्यत उत्कृष्टतस्तु पृथक्त्वमेवोच्यते, तत्र तजघन्यं लघुतरम् , उत्कृष्टं बृहत्तरमिति भावनीयम्" इति ॥ १४७॥ कषायकुशीलपरिमाणे आक्षेपमाह कोडीसहसपुहुत्तं, नणु माणं सवसंजयाण मयं । इह सकसायाण तयं, भणियं एसो खलु विरोहो॥१४॥ आक्षेपः RI 'कोडीसहसपुहत्तति । ननु सर्वसंयतानां मानं कोटिसहस्रपृथक्त्वं मतं "कोडीसहसपुहुत्तं जईण"त्ति वचनात् , इह है। 'तत्' कोटीसहस्रपृथक्त्वमानं 'सकपायाणां' कषायकुशीलानां भणितम् । एष खलु विरोधः पुलाकादिमानानामाधिक्यात् , विशेषसङ्ख्यया सामान्यसङ्ख्याव्याघातादिति भावः ॥ १४८ ॥ समाधत्ते णेवं सकसायाणं, पुहूत्तयं मज्झिमं तु काउं जे। अण्णेसिं संखाए, अंतब्भावो जओ इट्टो॥१४९॥|| समाधान है। वंति। नैवं' यथोक्तं त्वया, यतः सकपायाणां पृथक्त्वं मध्यमं 'कृत्वा' बुद्धावारोप्य 'अन्येषां' पुलाकादीनां सङ्ख्याया से अन्तर्भाव इष्ट इति। न च 'एवमप्युत्कृष्टपरिमाणसमाधानेऽपि जघन्यपरिमाणसमाधानानुपपत्तिः, जघन्यतोऽपि सामान्यसंयतानां कोटिसहस्रद्वयमानत्ववचनात् , कषायकुशीलानामप्येतावन्मानत्वात्' इति वाच्यम् , कषायकुशीलापेक्षयैव सामा-18 न्यमानवचनसम्भावनादवशिष्टाधिक्ये दोषाभावात् , उक्तञ्च भगवतीवृत्तिकृता-"ननु सर्वसंयतानां कोटीसहस्रपृथ RIPARAZIOSAS Jain Educun Hemational For Private & Personal Use Only

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540