Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
RECOMESSACROSOLASS
कारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण ही. नोऽनभ्यस्त इत्यनन्तगुणहीनः ६ । एवमधिकषट्स्थानकशब्दार्थोऽप्येभिर्भागहारगुणकारैर्व्याख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवाग्रम् , तदन्यस्य नव शताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाधिकः १। तथा यस्य नव सहस्राण्यष्टौ शतानि चरणपर्यवाय तस्मात्प्रथमोऽसङ्ख्येयभागाधिकः २। तथा यस्य नव सहस्राणि चरणपर्यवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः ३ । तथा यस्य चरणपर्यवानं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः ४ । तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्खयेयगुणाधिकः ५ । तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षया प्रथमोऽनन्तगुणाधिकः ६ इति ॥ 'परस्थाने विजातीये प्रतियोगिनि विचार्यमाणे 'कषायिणः' कषायकुशीलस्यापेक्षया 'एवं' पुलाकवदेव-तुल्यो हीनोऽधिको वा पदस्थानपतितः, कपायकुशीलस्थानानामादौ पुलाक
स्थानसमधारया प्रवृत्तानामुपरिष्टात्तत्परित्यागेनानिम्रन्थप्रारम्भं यावत्प्रवृद्धेः प्रदर्शितत्वादिति ॥ ९ ॥ है हीणोऽणंतगुणेणं अण्णेहिंतो सठाणि बउसो य । पडिसेवकसाईण य, तुल्लो छट्ठाणवडिओ वा ॥ ९१॥
'हीणो'त्ति । 'अन्येभ्यः' पुलाककपायकुशीलव्यतिरिक्तेभ्यो बकुशप्रतिसेवाकुशीलनिर्ग्रन्थस्नातकेभ्योऽनन्तगुणेन हीनः पुलाको न तु तुल्योऽधिको वा, तदुक्तम्-"वउसासेविणियंठगण्हायाणं हुजणंतगुणहीणो"त्ति । आगमेऽप्युक्तम्-"पुलाए णं भंते ! बउसस्स परठाणसन्निगासेणे चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ? गोयमा! हीणे णो तुल्ले णो अन्भहिए अणंतगुणहीणे । एवं पडिसेवणाकुसीलस्स वि । कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्ठाणे । णियंठस्स जहा बउ
CASSAUR
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540