SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ RECOMESSACROSOLASS कारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण ही. नोऽनभ्यस्त इत्यनन्तगुणहीनः ६ । एवमधिकषट्स्थानकशब्दार्थोऽप्येभिर्भागहारगुणकारैर्व्याख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवाग्रम् , तदन्यस्य नव शताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाधिकः १। तथा यस्य नव सहस्राण्यष्टौ शतानि चरणपर्यवाय तस्मात्प्रथमोऽसङ्ख्येयभागाधिकः २। तथा यस्य नव सहस्राणि चरणपर्यवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः ३ । तथा यस्य चरणपर्यवानं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः ४ । तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्खयेयगुणाधिकः ५ । तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षया प्रथमोऽनन्तगुणाधिकः ६ इति ॥ 'परस्थाने विजातीये प्रतियोगिनि विचार्यमाणे 'कषायिणः' कषायकुशीलस्यापेक्षया 'एवं' पुलाकवदेव-तुल्यो हीनोऽधिको वा पदस्थानपतितः, कपायकुशीलस्थानानामादौ पुलाक स्थानसमधारया प्रवृत्तानामुपरिष्टात्तत्परित्यागेनानिम्रन्थप्रारम्भं यावत्प्रवृद्धेः प्रदर्शितत्वादिति ॥ ९ ॥ है हीणोऽणंतगुणेणं अण्णेहिंतो सठाणि बउसो य । पडिसेवकसाईण य, तुल्लो छट्ठाणवडिओ वा ॥ ९१॥ 'हीणो'त्ति । 'अन्येभ्यः' पुलाककपायकुशीलव्यतिरिक्तेभ्यो बकुशप्रतिसेवाकुशीलनिर्ग्रन्थस्नातकेभ्योऽनन्तगुणेन हीनः पुलाको न तु तुल्योऽधिको वा, तदुक्तम्-"वउसासेविणियंठगण्हायाणं हुजणंतगुणहीणो"त्ति । आगमेऽप्युक्तम्-"पुलाए णं भंते ! बउसस्स परठाणसन्निगासेणे चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ? गोयमा! हीणे णो तुल्ले णो अन्भहिए अणंतगुणहीणे । एवं पडिसेवणाकुसीलस्स वि । कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्ठाणे । णियंठस्स जहा बउ CASSAUR Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy