Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्वोपज्ञवृत्तियुतः
चतुर्थी
॥ २०९ ॥
कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयति । निर्ग्रन्थो जघन्यत एकत्र भवग्रहणे स्नातकत्वं प्राप्य सिध्यति, उत्कर्षतश्च देवादिभवान्तरिततया द्वयोर्भवयोरुपशमनिर्ग्रन्थत्वं प्राप्य तृतीयभवे क्षीणमोहः सन् स्नातकत्वं प्राप्य सिध्यति । स्नातकस्य त्वजघन्यानुत्कृष्ट एक एव भव इति ज्ञेयम् ॥ १२५ ॥ उक्तं भवद्वारम् । अथाकर्षद्वारमाहतप्पढमतया गहणं, आगरिसो ते कमेण इक्कभवे । पुलयस्स तिष्णि तिपहं, सयग्गसो दुन्नि इको य॥ १२६ ॥
‘तप्पढमतय'त्ति । तस्य-अधिकृतव्यक्तिविशेषस्य प्रथमतया ग्रहणमाकर्षः । ते क्रमेणैकस्मिन् भवे पुलाकस्य त्रयः । 'त्रयाणां ' वकुशप्रतिसेवककषायकुशीलानां 'सयग्गसो'त्ति शतपरिमाणेन शतपृथक्त्वमिति भावः, उक्तञ्चावश्यके"सयपुहुत्तं च होइ विरईए "त्ति । भगवत्यां चोक्तम् - " वउसस्स णं पुच्छा, गोयमा ! जहण्णेणं एक्को उक्कोसेणं सयग्गसो । एवं पडिसेवणाकुसीले वि कसायकुसीले वि" । निर्ग्रन्थस्य द्वावाकर्षो, एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्ग्रन्थत्वे द्रष्टव्यौ, उपशमक्षपकश्रेणिद्वयं त्वेकत्र भवे न संभवति, उक्तञ्च कल्पाध्ययने -- "एवं अपरिवडिए, सम्मत्ते देवमणुअजम्मेसु । अण्णयरसेढिवज्जं, एगभवेणं च सवाई ॥ १ ॥” सर्वाणि सम्यक्त्वदेशविरत्यादीनि । अन्यत्राप्युक्तम् - " मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ १ ॥” इति, अयं तावत्सैद्धान्तिकाभिप्रायः । कार्मग्रन्थिका स्त्वाहुः – “य उत्कर्षत एकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य तस्मिन् भवे नियमादेव क्षपकश्रेण्यभावः, यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि " । उक्तञ्च सप्तति| काचूर्णी - " जो दुवारे उपसमसेटिं पडिवज्जइ तस्स णियमा तम्मि भवे खवगसेढी णत्थि, जो इक्कर्सि उवसमसेटिं पडि
For Private & Personal Use Only.
Jain Education International
गुरुतत्त्वविनिश्चयः
लासः
आकर्षद्वारम्
॥ २०९ ॥
www.jainelibrary.org

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540