SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः चतुर्थी ॥ २०९ ॥ कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयति । निर्ग्रन्थो जघन्यत एकत्र भवग्रहणे स्नातकत्वं प्राप्य सिध्यति, उत्कर्षतश्च देवादिभवान्तरिततया द्वयोर्भवयोरुपशमनिर्ग्रन्थत्वं प्राप्य तृतीयभवे क्षीणमोहः सन् स्नातकत्वं प्राप्य सिध्यति । स्नातकस्य त्वजघन्यानुत्कृष्ट एक एव भव इति ज्ञेयम् ॥ १२५ ॥ उक्तं भवद्वारम् । अथाकर्षद्वारमाहतप्पढमतया गहणं, आगरिसो ते कमेण इक्कभवे । पुलयस्स तिष्णि तिपहं, सयग्गसो दुन्नि इको य॥ १२६ ॥ ‘तप्पढमतय'त्ति । तस्य-अधिकृतव्यक्तिविशेषस्य प्रथमतया ग्रहणमाकर्षः । ते क्रमेणैकस्मिन् भवे पुलाकस्य त्रयः । 'त्रयाणां ' वकुशप्रतिसेवककषायकुशीलानां 'सयग्गसो'त्ति शतपरिमाणेन शतपृथक्त्वमिति भावः, उक्तञ्चावश्यके"सयपुहुत्तं च होइ विरईए "त्ति । भगवत्यां चोक्तम् - " वउसस्स णं पुच्छा, गोयमा ! जहण्णेणं एक्को उक्कोसेणं सयग्गसो । एवं पडिसेवणाकुसीले वि कसायकुसीले वि" । निर्ग्रन्थस्य द्वावाकर्षो, एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्ग्रन्थत्वे द्रष्टव्यौ, उपशमक्षपकश्रेणिद्वयं त्वेकत्र भवे न संभवति, उक्तञ्च कल्पाध्ययने -- "एवं अपरिवडिए, सम्मत्ते देवमणुअजम्मेसु । अण्णयरसेढिवज्जं, एगभवेणं च सवाई ॥ १ ॥” सर्वाणि सम्यक्त्वदेशविरत्यादीनि । अन्यत्राप्युक्तम् - " मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ १ ॥” इति, अयं तावत्सैद्धान्तिकाभिप्रायः । कार्मग्रन्थिका स्त्वाहुः – “य उत्कर्षत एकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य तस्मिन् भवे नियमादेव क्षपकश्रेण्यभावः, यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि " । उक्तञ्च सप्तति| काचूर्णी - " जो दुवारे उपसमसेटिं पडिवज्जइ तस्स णियमा तम्मि भवे खवगसेढी णत्थि, जो इक्कर्सि उवसमसेटिं पडि For Private & Personal Use Only. Jain Education International गुरुतत्त्वविनिश्चयः लासः आकर्षद्वारम् ॥ २०९ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy