________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
कथमिह लप्स्ये दिविजवरं मानिनिमन्मथकेलिपरम् ॥ ८॥ इन्दुधर्मकरायते प्रियतमे वायुश्च हीरायते लेपो ऽपि ज्वलनायते कुसुमसन्माला ऽहिजालायते । आवासो गहनायते स्मरवशादेहो ऽपि कारायते हा कष्टं पतिविप्रयोगसमयः संवर्तवेलायते ॥ ३ इति निजहृदयस्थं सम्यगावेद्य सर्व मम पतिललिताङ्गे मेलनं प्रापयेति । गतभवचरितार्थ पट्टके संविलिख्य सकलगुणसमृद्धे प्रार्थये पण्डिते त्वाम् ।।४ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे श्रीमतीजातिस्मरणवर्णनो नाम
चतुर्थः प्रबन्धः ॥४॥
[५]
सुकविविमलबुद्धिः श्लिष्टमर्थ' वृणोति सुनयविहितराज्यं श्रीरवाप्नोति यद्वत । नलिनसुभगनेत्रे मेलयिष्यामि तद्वत्
पतिमिह तव कन्ये मा कृथास्त्वं विषादम् ॥ १ ६) हीरायते = वज्रायते ७) B गन्धो ऽपि, H दीपो ऽपि for लेपो ऽपि c) The second parts of lines two and three are inter
changed in some MSS. १) BM शिष्टमर्थ।
For Private And Personal Use Only