Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ गीतवीतरागप्रबन्धः अष्टादशद्विर्जलधीद्धकोटिमितेषु कालेषु गतेषु देव। नष्टं सुधर्म पुनराविरेतुं' कालो ऽयमेवात्र न संशयो ऽस्ति ।। १० इत्युक्त्वा निजकार्यमेतदखिलं लौकान्तिकास्ते गताः पश्चाच्छीवृषभेश्वरः स भगवान् द्वैगुण्यवैराग्यवान् । प्राप्ताभीष्टमतेन देवपतिना दीक्षाभिषेकीकृतो देवो मङ्गलभूषणाश्चिततनुर्जातो निजात्मप्रियः ॥ ११ रत्नैः कृतां सच्छिबिकामधिष्टः सिद्धार्थसन्नामवनं प्रविष्टः । तन्मध्यदेशस्थशिलासुपट्टे निर्ग्रन्थरूपं स दधे विशिष्टः ।। १२ इति श्रीमदभिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गोतवीतरागे भगवद्वैराग्यवर्णनो नाम विंशतितमः प्रबन्धः ॥ २० ॥ [ २१ ] आजानुकालम्बितदीर्घबाहुर्दयासुधासारसुपूर्णदेहः । ५) M पुनराविशेति । ६) B पीठे, M घट्टे। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119