Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram Author(s): Yatindrasuri, Publisher: Rajenda Pravachan Karyalay View full book textPage 9
________________ 58ॐREERS दामग्रेसरो वर्तते, अयं खलु सर्व तथ्यमाचष्टे, नीतिशास्त्रे यथा भणितं तादृशमेव कथयत्यसावपि । 'अपारस्यापि पारावार स्य मतिमन्तः पारङ्गन्तुमुपायेन शक्नुवन्ति, किन्तु कुलटायाः पारं केऽपि नापुरिति सकला अपि नीतिज्ञा आहुः ।' यदीदं | तथ्यमस्ति तर्हि मयाऽवश्यमेवैतत्परीक्षणीयम् । यतः लोके खलूत्तमस्य स्वर्णस्यापि परीक्षणं किं नो कुर्वन्ति ? परीक्षितान्येव तानि सन्तो गृहन्ति । तथा चोक्तम् ___ यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषं परीक्ष्येच्छुतेन शीलेन कुलेन कर्मणा ॥ ३ ॥ व्याख्या-यथा स्खलु लोकैः कनकं स्वर्ण चतुर्भिः प्रकारैः परीक्ष्यते-सदसज्ज्ञायते, निघर्षण-कषोपरिविलेखन, छेदनं वेधनं, तापोऽग्निसन्तापनम् , ताडनं-कुट्टनम् , एतैश्चतुर्भिः परीक्ष्य यथा सदसदिति लोका विदन्ति, तथा श्रुतेन शास्त्रेण, ज्ञानेन वा, शीलेन ब्रह्मचर्येण स्वभावेन वा, कुलेन-विशुद्धवंशेन, कर्मणाऽऽचारेण च पुरुषं-पुमांसं स्त्रियं वा परीक्ष्येत्= तत्परीक्षां कुर्वीत । तथाऽहमपि परीक्षयिष्याम्येवैतदित्यवधार्य स पृथ्वीपतिः विक्रमार्कः समागतां भोजनवेलामालोक्य सभां विसृज्य मनोहरे स्नानागारे स्नातुमगमत् । तत्र विधिवत्स्नातानुलिप्तो नृपो मन्दिरमागत्य जिनेश्वरमभ्यर्च्य भोजनालये यथारुचि बुभुजे । पुनः सभामागत्य विद्वद्वन्देन सत्रा समालपन दिवसं व्यत्यैत् । इत्थं दिनेऽतीते पत्या चन्द्रमसा सङ्गतुमौन्सुक्यवतीं Jain Education a l For Personal & Private Use Only Iw.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 94