Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 58
________________ चरित्रम्. श्रीचम्पकमाला ॥३१॥ किन्तु तात्कालिकीव शोशुभ्यते । राजन् ! एतदाश्चर्यमसम्भवं वा मा मंस्थाः। यतः--शीलानुभावादेव सीतायाः परीक्षाकाले दहनकर्माऽप्यग्निर्जलवच्छीतलो जज्ञे । कमलावत्या अपि छिन्नौ करौ शीलप्रभावात्पुनर्लोकसमक्षमेव जज्ञाते । सुदर्शनस्य श्रेष्ठिनस्तन्माहात्म्यादेव पश्यत्सु नृपादिलोकेषु शूलिका स्वर्णसिंहासनमजायत । महासती दमयन्ती खलु शुष्कताङ्गताया नद्या वारिप्रकटनमकरोत् । प्राफुल्लयच्च निजभर्पितङ्कमलं शीलमहिम्नः शीलवत्यपि । सुभद्राऽऽमतन्तुयोगाचालिन्या कूपाजलमकाक्षीच्च । तथा मम स्त्रियाः सच्छीलमाहात्म्यात्तावकीना विमलतरासत्कीतिरिव मत्कण्ठस्था मालेयं जातुचिदपि नैव शुष्यति । जगति शीलप्रभावो वचो- | गोचरतां नैव ब्रजति । यतः-'शीलशालिनां वचनमचेतनेयं स्रगपि नोल्लंधितुं प्रभवति, तर्हि चेतनानां का कथा?,' अत आहुः-- सीमा खानिषु वज्रमगदङ्कारेषु धन्वन्तरिः, कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु। । ॐकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु क्षितिः, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम् ॥३२॥ ___व्याख्या-खानिषु-आकरेषु यथा वज्रमशनिः सीमा, अगदङ्कारेषु वैयेषु धन्वन्तरिः, त्यागिषु दातृषु कर्णः, देवतासु यथा कमला-लक्ष्मीः , पर्वसु-पुण्यतिथिषु यथा दीपोत्सवो दीपमालिका, सकलाक्षरेषु-सकलवर्णेषु यथा ॐकारः, गुरुषु | महत्त्वेषु यथा व्योम-गगनम् , स्थिरेषु-निश्चलेषु यथा क्षितिः पृथ्वी, नयतत्परेपु-नीतिशालिषु यथा श्रीरामः, तथा व्रतेषु | परमं सर्वोत्कृष्टम् , ब्रह्मव्रतम् ब्रह्मचर्यमस्ति । अन्यच्च JainEducation For Persona & Private Use Only albaryong

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94