Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
श्रीचम्पकन
चरित्रम्
माला
॥३४॥
4%A4%%ARSA
शीलमसम्भवमेव सम्प्रतिकाले प्रतिभाति । तदुक्तम्स्थानं नास्ति क्षणं नास्ति, नास्ति प्रार्थयिता नरः। तेन नारद ! नारीणां, सतीत्वमुपजायते॥३५॥ . व्याख्या हेनारद ! नारीणां, स्थानं तद्योग्यसङ्केतस्थलं नास्ति न मिलति, क्षणं-समयो वा नास्ति, कोऽपि प्रार्थयिता नरो वा न मिलति तासामेव नारीणां सतीत्वमुपजायते तिष्ठति, नान्यथेति भावः।
राजन् ! यथा मन्दुरायां प्रतिबद्धोऽश्वो मनसो विषयासक्तत्वेऽप्यगत्या शीलमवति, तथा या ललना मनसि विषयरिरंसायाः सद्भावेऽपि लज्जा भीत्यादिना शीलं पालयति । मनोयोग विना तस्याः शीलपालनं वास्तविकं भवितुं नार्हति, नवा शास्त्रोक्तं माहात्म्यं साऽञ्चति । सह मनसा या विषयसुखमनीहते सैव सतीत्वमुपैति, तादृशी तु कापि न दृष्टिपथमारोहति । किश्च यदभाणि प्रभुणा सार्थवाहस्य स्त्रीशीलप्रभावादेव कण्ठस्था चम्पकमाला न म्लायति, तत्कालनिष्पन्नेव भातीति तदपि विचारसहं न मन्ये, न वा तत्र तत्पत्न्या अखण्डितं शीलं हेतुः, किन्तु कस्याश्चिद्देवताया अनुभावादेव तत्कण्ठस्था सा विकस्वरा वरीवृत्यतेऽनवरतम् । निश्चयमेतदवेहि-यत्सा चम्पकमाला मुधैव मायया तादृशङ्कपटं विधाय भर्तारं तं सार्थवाहमवश्चयत । नूनं केनापि यूना कामुकेन स्वैरं रमते सा, यस्मात्-'ऐन्द्रजालिक इव मायाविनी कामिनी विचित्रमेव मायां विरचय्य पुमांसमविद्वांसं छलयति, सतीत्वञ्च प्रथयति ।
राजा जगाद-मत्रिणः! एवं मा वदत ? यदीयं सागराम्बरा रत्नगर्भा निगद्यते, अतएवाऽस्यां बहुला ललना यथार्थशीलपालिनी भवेच्चेत्किमाश्चर्यम् ?, अधुनापि यथा पुंसु कश्चिद्यथार्थाऽखण्डितशीलवान् विद्यते तथा नारिष्वपि कयाचिदाजन्मा
॥३४॥
Jain Education
For Personal & Private Use Only
P
ainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94