Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 87
________________ अर्थार्थं नक्रचक्राकुलजलनिलयं केचिदुच्चैस्तरन्ति, प्रोद्यच्छस्त्राभिघातोत्थितशिखिकणकं जन्यमन्ये विशन्ति । शीतोष्णाम्भः समीरग्लपिततनुलताः क्षेत्रिकां कुर्वतेऽन्ये, शिल्पञ्चानल्पभेदं विदधति च परे नाटकाद्यञ्च केचित् ॥ ४४ ॥ व्याख्या-अर्थार्थ धनार्जनाय केचित कियन्तो जना उच्चैरगाधं नक्रादिभीषणजलजन्तुसमहेनाऽऽकुलीकृतजलराशि समुद्रं तरन्ति-समुद्रमप्युत्तीर्य व्याप्रियन्ते, प्रोद्यन्ति यानि शस्त्राणि तेषां घातेन प्रहारेणोत्थिताः शिखिनः कणा यत्र तादृशं जन्यं युद्धमन्ये इतरे विशन्ति, अत्कियन्तो धनलिप्सया प्राणापहार्यपि युद्धं कुर्वन्ति । अन्ये तु शीतेनाऽम्भसा-चारिणा समीरेण वातेन ग्लपिता-म्लाना तनुलता लतेव कोमला तनुर्येषां ते तत्कृतं क्लेशं सहमानाः क्षेत्रिका क्षेत्राणि कुर्वते-कृषन्ति, च पुनः परेऽनल्पभेदमनेकभेदसहितं शिल्पं विदधति अकुर्वते, केचिच्च नाटकादि कुर्वते, इत्थं धनोपार्जनेऽपि महानेव क्लेशो दृश्यते, सुखन्तु मनागपि नैवाऽवलोक्यते । अतएवहिंसामहिष माकथा वद गिरं सत्यामपापावहां, स्तयं वर्जय सर्वथा परवधूसंगं विमुञ्चादरात । कुर्विच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज, प्रीति जैनमते विधेहि नितरां सौख्ये यदीच्छास्ति ते४५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94