Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 85
________________ सन्तः निजनिजालयमापेदिरे । सार्थवाहोऽपि तस्या महासत्या सङ्गत्या सौशील्यमुपेयिवान् । अथैकदा तत्रोजयिन्यां पुर्या भव्यजीवानां पावनाय सुखाय च श्रीसिद्धसेनदिवाकरः सूरीश्वर आगात्तदाकर्ण्य मेघागमेन केकीव प्रहृष्यन् पुलकितरोमराजी राजा नितरामतुष्यत् । तदनु महा शुभभावभावितमना नरनाथो गुरुवन्दनायै निरगात्, इतरेऽपि महान्तो जनास्तत्रावसरे तदर्थं तेन सत्रा सहस्रशो ययुः। अस्मिन्नेवावसरे निजसुजनजनमण्डलमण्डितः प्रियया सहितः सार्थवाहोऽपि धर्मदेशनां शुश्रूषुस्तत्रागात् । तदा सूरिदिवाकरो भव्यजीवपद्मवनं विबोधयन्तीम् , अज्ञानतिमिरनिर४ास्यन्ती, सुधास्यन्दिनीं धर्मदेशनां प्रारेमे । तथा हि| अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं, मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् । धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं, पश्चात्तापहतो जरापरिगतःशोकाग्निना दह्यते॥४२॥ व्याख्या-भो भव्या! इह दुःखदावानलसन्तप्ते संसारे अर्थाः सम्पत्तयः पादरजःसमाः पादयोश्चरणयोर्लग्नानि यानि | रजांसि धूलयस्तेषां समास्तद्वत्क्षणिकाः, यौवनं तारुण्यं गिरिनद्यास्तदुद्भूतायाः सरितो यो वेगस्तस्योपमा साम्यं यस्मिंस्तादृशमस्ति । अर्थात्पर्वतोद्भूतसरितो वेगो महान् भवनपि यथा चिरस्थायी न भवति तथा जीवानां तारुण्यमपि चिरं स्थाष्णु नो जायते । यदिदमतिदुरापं मानुष्यं मनुष्यजन्म तदपि जलबिन्दुवल्लोलचपलमतिचञ्चलमस्ति, एवं जीवितं लोकानामायुरपि फेनोपमं-अधिकफेनस्योपमा तुलना यस्मिंस्तथा वर्त्तते तद्वदेव विनश्वरमस्ति, अस्माद्धेतोर्यो नरः पुमान् निश्चलं दृढ़ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94