Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
Jain Education
ततोऽसौ सार्थपतिः शङ्कादिदोषमुक्तमुज्वलं सम्यक्त्वसहितं निर्दुष्टाऽणुव्रतात्मकं श्राद्धव्रतं पालयन्, साधूंश्व विशुद्धाऽनपानवसनपात्रादीनि प्रतिलाभयन्, सद्ध्यानं धरन् सकलश्रावकमूर्द्धन्यो बभूवान् । तत्पत्नी चम्पकमाला महासत्यपि सच्छीलसौरभ्येण शुशुभे । प्रकृत्योदारचेताः सन्नपि परमोदारोक्तिप्रेरितः प्रमोदभागसौ सार्थेशः सदुपार्जितां निजलक्ष्मीं सप्तक्षेत्रेषु वपन् सार्थक्यं निनाय । बहुलार्थव्ययेन नव चैत्यानि निर्माय तेषु बहुना द्रव्यव्ययेन महीयसोत्सवेन चाहतीः प्रतिमाः प्रातिष्टिपत् । कियतां जीर्णतराणां चैत्यानामुद्धृतिमचीकरत् । तथा जिनशासनोपयोगिनानापुस्तकान्यली लिखत् । चतुर्विधश्रीसंघभक्तिरप्यकारि । अथाऽमुना धर्ममतिना सार्थवाहेन जीवांश्विरं जिजीवयिषया मीनजीविनां दुष्टतमानां धातुकानां मीनघातवृत्तिरपि नृपतस्त्याजिता । अर्थाद्यथा कश्चिदपि जात्वपि मीनादीनबलाञ्जीवान् नो हन्यादिति राजनियममकारयत । निजविशालभालपट्टे संघाधिपत्यतिलकमुत्तममधारि चामुना । अकारि च सिद्धाचलरैवतादिमहातीर्थगमनप्रभुदर्शनसुनमनादि । इत्थं सस्त्रीकः सार्थेशः श्राद्धधर्ममाश्रित्याऽऽर्हच्छासनवर्द्धनतत्परः कृताभिग्रहं यथावत् परिपालयन् प्रान्ते तौ दम्पती समाधिमृत्युना सद्गतिं लेभाते । यतो ' भगवदर्हच्चरणकमलसेविनामीदृश्येव गतिर्जायते । तस्मात्सर्वैरेव भव्याशयैः शीलरक्षायै प्रयतितव्यम् । एतद्धि सम्यगवितं सत्प्राणिनां चिन्तामणिरिव लौकिकं सर्व सुखादिकं साधयति, प्रान्ते चाऽजरामरगति प्रापयतीति । स्वस्त्यस्तु । आजन्मप्रतिपाल्य शीलमनघं सत्यग्रगण्या भवे, ह्यस्मिंश्चम्पकमालिका निरुपमं लेभे यशोनिर्मलम् ।
onal
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94