Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 83
________________ स्त्री त्रिजगतीं पुनानां भागीरथीमाविला चिकीर्षति, तथा सच्छीलशालिनीमिमां सती दुःशीलां विधातुमनसस्तदीयप्रख्यातिमसहमानास्तदसूयया पापीयांसो वयं स्वयमेव तत्र महागर्ने निपतिताः केनापि नैव क्षिप्ताः, अमुष्याः सत्यास्तु तत्र लेशतोऽपि दोषो नैव दीयते तत्रापि यदेषा सतीप्रकाण्डा समुद्भूतप्रभूतकारुण्येन निरन्तराऽन्नपानप्रदानेन नो जीवितमदीधरत् , तत्तु महाश्चर्यमजायत । यत्तत्र नरकोपमे गर्ने पतितैरस्माभिः कदन्नमखादयत्सा सती शिरोमणिस्तन्मन्ये प्रबलतरसञ्जातमाररोगोपशमोऽकारि, तथा कुसुमशरजालोन्मादापहारकारितत्कृतोपचारप्रचयेन यदभून्नः शरीरे कार्यं तदप्यायतौ गुणकारि शिक्षणमेव मन्यामहे । इत्थं तेषां मन्त्रिणामास्याच्चम्पकमालाया गुणग्रामस्तुतिमाकर्ण्य विस्मयाऽऽविष्टचेताः सारग्राही गुणविद्राजा प्रमोदभरात्तामस्तावीत्-अहो ! अस्तीदानीमपि स्त्रीजातावीदृशी मतिनिचयनिधिः कौशल्यपटीयसी महीयसी सती कामिनी प्रशस्यतममस्त्यस्याश्चातुर्यम् , धन्या खल्वेषा त्रिकरणविशुद्धमुत्तमं शीलमवति । इह हि जगत्यां कायेनापि शीलपालनङ्कठिनमस्ति, तस्मादप्यतिकठिनं वाचा शीलपालनम् , अमूभ्यामपि मनसा तत्पालनं सर्वथा लोकोत्तरमेवास्ति । यत:-'मनोविकाराकरोद्गमनवर्द्धने मेघतुल्या, यस्याश्चेतसि स्वास्थ्यावस्था प्रणनाश, याश्चानारतं भर्तृवियोगाऽनलो नितरां सन्तापयति, स्फुरति च यस्यास्तडिद्गौरवर्णायास्तारुण्यमतिमनोहरं दर्शनादेव युवजनमनोविलोभनक्षमं नूत्नम् , विद्यन्ते च यस्यां सर्वे सद्गुणा अशेषाः कलाश्च, विलसन्ति च बहुलाः कमलाः, प्रार्थयन्ति च कामकिङ्करीभूताः समीपमागताः कामिनः, सति च श्वश्र्वादिगुरुजनानामसद्भावे दर्भाग्रमतिशालिनीयं चम्पकमाला यदनुपमं विशुद्धं शीलं दधाति, का परा तथा शीलं दधीत ?, कापि Jain Education BIS For Personal & Private Use Only FARMainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94