Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 67
________________ वर्त्तते, यया गुणिना सन्ङ्गन्तुं स्वयमेव प्रवर्तते गुणवान् , अन्यदाऽऽस्तां तावत् । सुभगे ! गुणवता सङ्गत्यै बदुदूरतोऽपि गुणी समायाति । अतः गुणवत्या भवत्या सजिगंसां वहन् महीयानुजयिनीतः कश्चिदत्र महामत्री समायातः । तदाह गुणिनि गुणज्ञो रमते, नाऽगुणशीलस्य गुणिनि परितोषः। अलिरेति वनात्कमलं, नहि भेकस्तत्र संस्थोऽपि ॥ ३७ ॥ व्याख्या-गुणाञ्जानातीति गुणज्ञः-गुणग्राही जनो गुणिनि-गुणवति जने रमते दृष्यति, अगुणशीलस्य नास्ति गुणस्यशीलं यस्मिस्तस्य निर्गुणस्य गुणवति परितोष: प्रीति!देति, यथा अलिभ्रमरो बनाद्वनं विहाय कमल-सरोज प्रत्येति समायाति तत्र सौरभ्यगुणस्य सत्वात् , तत्र जले तत्रैव स्थाने संस्थोऽपि भेको मण्डूको नैति, कमलगुणानभिज्ञत्वात् । स च राजमंत्री कामुको युवा सकलकला विद्वान्महीयान् पुमान् काश्चिदद्भुतामेव सुषमा धत्ते । रूपेण साक्षान्मदन इव चकाशन महाचतुरशिरोमणिमधुरालापी, मांसलाऽवयवः, सचिह्नचिह्नितमुकुटमण्डितो मूलदेवाभिधानः सुराचार्य इव मतिमान्, विक्रमार्कनरनाथकुलपम्परागतवर्तमानमन्त्रिगणगरीयान् ,। विक्रमराजस्य प्राधान्येनाऽभिमतः, कदाचित्कस्यचिजनस्य मुखेन तावकीनलोकोत्तरस्फारजगत्प्रसारगुणावलीमाकर्ण्य भवत्या सङ्गन्तुमत्युत्सुक इहागतोऽस्ति । तेनैव मत्रिणा स्वाशयं त्वामभिधातुमहं तवान्तिके प्रेषितास्मि । यस्मादत्युग्ररागवान्महान्मतिवान् पुमान् निजाशयं कस्याप्यग्रे प्रकटयितुं नो शक्नोति । तदनुरूपं भाग्यस्य सौन्दर्यस्य च निधानं महता पुण्योदयेन प्राप्यं तमागतं मत्रिवरं सेवस्व, तत्संयोगेनाऽनघमिदं यौवनं स च राजमंत्री कामका धारालापी, मांसलाऽवयवः समान, विक्रमराजस्य प्राधान्यनाता तेनैव मन्त्रिणा Jain Education For Personal & Private Use Only Kajainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94