Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 57
________________ भवत्येवेति निश्चयं विदाकर्वन्तु तत्र भवन्तः । गुणानां प्रवाससंवासाभ्यामर्थात्तदीयाऽवगुणसंसर्गाचिरपरिचयाद्वा यथा सा दुःशीलाऽऽसीत्तथैवेयमपि तदनुजा भविष्यतीति मा संशयीथाः। यतः-सज्जनो जनो दुर्जनानां गोष्ठ्यां तिष्ठन्नपि तत्परिचयङ्कर्वन्नपि लेशतोऽपि तदीयदुर्जनतां नैव भजते । यथाऽऽजन्ममहाभोगिभोगस्थितो मणिःस इव दुःखभावः परेषां पीडाकारी न जायते । यद्यप्यहं तस्या अनुजामि तथापि तत्तुल्यस्वभाववतीभृय सेवाऽकृत्यं नैवाऽऽचरिष्यामि स्वमेऽपि । अथवा यथा क्वचित्कूपे पतितमात्मीयमपि जनं विलोक्य तत्पृष्ठे मतिमान् नैव पतति तथैवाऽहमपि तदनुकारिणी नैव बुभूषामि । अतएव ज्यायसीं मे स्वसारं दुराचारिणीं विलोक्य तदनुजां मामपि मा जहाहि ?, 'क्षीराद्विरक्तः कश्चिद्दधि जहाति किम् ?' एतद्विपये निस्पेव बहु किं जल्पामि-" भवदधिग्रीवं या चम्पकमाला मया निहिता सैव मामकं. सतीत्वं बोधयिष्यति, यावन्मे शीलमखण्डितं स्थास्यति तावदियं सक तब कण्ठे सद्यो जातेव भवन्तमामोदयन्ती सुषमा धरिष्यति, मनागपि नैव म्लास्यति । यदैव मनसा वचसा कायेन वा निजशीलं मलिनीकरिष्यामि तदैव मदर्पिता भवत्कण्ठस्थिता स्रगियं म्लास्यति । यदेयं मालिका म्लायेत्तदैव मत्सतीत्वमपि खण्डितमवगन्तव्यमितरथा नैवेति तथ्यञ्जानीहि ।" इत्यादि तदुक्तिश्रवणेन समुद्भुतप्रभूताश्चर्यस्तत्प्रार्थनमङ्गीकृतवानहम् । ततः शुभे दिने महतामहेन तत्पिता तां चम्पकमालानाम्नी मया सत्रोदवाहयत । तदनु पित्राप्तिकौतुकोत्पादिदासदास्यादिगजतुरङ्गादिसमृद्धियुतां तामुदाहितां कन्यां सच्छीलामहं निजगृहमानिनाय । सैवैषा चम्पकमालिका तदखण्डितशीलसूचिका तदर्पिताऽद्यापि सद्यो गुम्फितेव दृश्यमाना मम कण्ठे विचकास्ति । गतेष्वपि द्वादशवत्सरेषु तस्याः सतीत्वमाहात्म्यादद्यपर्यन्तं देवतार्पितेव न. शुष्कतामध्यगच्छत् , Jain Educatio n For Persona & Private Use Only inbrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94