Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 61
________________ मतापि पुंसा दुःखेनैव ज्ञातुं शक्यते, इति पण्डितगणैरभाणि । तदेव परीक्षितुमेनामहमुदवक्षि नतु रिम्सया । अहमेतत्पाणिपीडनकाल एव निश्चिकाय निजस्वान्ते चेदियं केनापि पुंसा व्यभिचरिष्यति, तर्हि तस्मा एव जारपुरुषाय दास्यामेनाम् । पुरुषान्तरेण कथमेषा चातुर्येण मिलतीति दिदृक्षयैवैकस्तम्भे तत्र सौधे परैरंगम्ये तामतिष्ठिपम् , यद्यत्कामितमनया तत्सर्वमपूरयश्च । तथापि तेन विदुषाऽधिसभं यदभाणि-राजेन्द्र ! अद्यावधिस्त्रीचरित्रबोधिनीकला त्वया नैवाऽवेदि ' इति तदुक्तिं सत्यापयितुमहं यथा रमाकान्तो लक्ष्मीङ्कमलमध्ये स्थापयामास, तथा तां स्त्रियमुपयुक्तभवनेऽस्थापयम् । उक्तश्च- . कल्लोलैः सह पांसुखेलनतया लोलेयमित्याशया-देकस्तम्भसरोजसौधकुहरे सिन्धोः सुता शौरिणा । यन्मुक्तापि पितामहप्रहरके छेकेयमिन्दोः कर्निर्यात्यंशुकरैरुपैति च नमो नारी चरित्राय तत् ॥३४॥ ___ व्याख्या-यदलात्कारणादियं लक्ष्मीः कल्लोलैर्जलतरङ्गैरिव, पांसुखेलनतया-बालकर्तृकधूलिक्रीडनमिव लोला-चञ्चले4 त्याशयादभिप्रायाच्छौरिणा-विष्णुना एकस्तम्भसरोजसौधकुहरे एक एव स्तम्भो नालो यस्मिन् सैकस्तम्भः सचाऽसौ सरोजः कमलं स एव सौधः प्रासादस्तस्य कुहरे मध्ये मुक्तापि-स्थापितापि सिन्धोः सागरस्य सुता-पुत्री-लक्ष्मीः पितामहप्रहरके पितामहस्य ब्रह्मणः प्रहरे ब्राह्म मुहुर्ने छेका-चतुरेयं कमला इन्दोश्चन्द्रमसः करैः किरणैः सह निर्याति-निर्गच्छति, पुनः सायङ्काले अंशुकरैः सूर्याशुभिः सहोपैति समायाति च । तसान्नारीचरित्राय स्त्रीचरित्राय ज्ञातुमशक्याय नमो नमस्कारोऽस्तु । यद्यपि पण्डितोक्तं जात्वपि मिथ्यात्वं नो व्रजति तथापि तदुक्तोपरि विश्वासमकुर्वन्नीदृक्चेष्टमानामपि काश्चिद्विदुषीं नारी Jain Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94