Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 33
________________ सेवेय, जात्वेवं नैव सम्भवतीति तत्त्वम् । किश्चान्यापि कुलाङ्गना जारं मनसापि नैव भजते, तर्हि सत्कुलजाता महीयसस्ते कुलवधूभूत्वाऽहं पुरुषान्तरं सेवेयेति कदाचिदपि नैव घटते । तस्माद्विद्वच्छिरोमणे! तव मुखादीगनृताऽसभ्यवचनोद्गारः कथं निःसरीसरीति । तस्या ईदृशं वच आकर्ण्य राजा मनसि दध्यौ-अहो ! महाद्भुतमेतत्कीदृशीयं साहसभूमिः, मामेवाऽनृतभाषिणं प्रथयन्ती विलसन्तमपि दोषमपलपति । हं हो ! स्त्रीचरित्रवेदिनां महतां वचनमियं स्वीयदुश्चरित्रं जानानापि सत्यापयति । अर्थात् स्त्रीचरित्रताया दुर्जेयतामेव सर्वथा व्यनक्तीयं तथा तद्वेदिनां विदुषां बन्धनमपि स्पष्टमेव सत्यापयति । कीदृगस्या वैदग्ध्यं साहसश्च वर्तते । महदाश्चर्यमेतत्तथाप्यहं केनोपायेनैनां प्रतिबोध्य जारं प्रकटयिष्याम्येव, इति मनसि निर्धार्य तामित्याख्यद्राजा-अयि कामिनि ! कदाचिदप्यहमनृतमेतन्नो जल्पामि, न वाऽसभ्यं कमपि भाषे । यतोऽहङ्गन्तेऽहनि प्रभातकालेऽत्रागतोऽहं तात्कालिकसुरतचिह्नलक्षितां त्वामद्राक्षम् । यमनश्च पुरुषमन्तरा नैव सम्भाव्यते । तस्मात्प्रत्यक्षीकृतमर्थं मुधा किमपलपसि ?, अहं सत्यमेव वदामि । तस्मादात्मोपपतिं दर्शय?, वृथा मां मा प्रतारय ?, मत्तश्च तद्दर्शने मनागपि भयं माकृथाः। यतस्त्वां जारं वा नाहं हनिष्यामि । स्वयमेव चेत्तं दर्शयिष्यस्यधुना तर्हि युवयोर्लेशतोऽपि मत्तो भीतिर्नो भविष्यति । अन्यथा विद्ययाहं प्रकटीकरिष्यामि चेद् युवामसंशयं निहनिष्याम्येवेति सत्यं विदाङ्करोतु भवती।। इति नृपोक्तिमाकर्ण्य भयपवनविध्वस्तगाढकौटिल्यमेघमालाराज्ञी गगनवत्सुप्रसन्नासती वचनलक्षणतारागणमुद्द्योतयितुमलगत्-सर्वसह ! स्वामिन् ! आवयोरुग्रतरमसहनीयमपि मन्तुं क्षमस्व, क्रियतां च निगदिता वाक् सत्या, अर्थात्-'यत्प्र P Jan Educa For Persons & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94