Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
तावद् दत्तागलं माकृथाः। तावदप्रमत्तेन त्वया जागरितव्यमस्मिन् कार्ये शिरो मा धुनीहि, इति निगदन्त्यां तस्यां प्रचण्डतामुपनीतो द्वारपालस्तामेवमुवाच-इदानीमनवसरे रजन्यां व यियाससि ?, किञ्च ते कार्य वर्तते तद् हि ?, यतः-'एतर्हि तस्करप्रमुखा एव प्रचरन्ति, कुलीनास्तु सदनान्तरेव तिष्टन्ति ।' अत इदानीं यच्चिकीर्षसि तत्प्रभाते करणीयमिदानीं परावर्तस्व । यदहं निशीथसमयादशेषरात्रं जागरितुं नैव शक्नोमीति तदुक्तिम...र्ण्य निरस्तातिदुःखिता, क्रन्दन्ती मनसि समुद्भुतप्रभूतक्रोधाग्निज्वालाजटिला, विच्छायवदना स्वस्थानं प्रत्यावर्त्तत। तदानीं विनिद्रोऽहमुभयोरुक्तिप्रत्युक्ती समाकर्ण्य व्यचिन्तयम्-हंहो ! या कामिनी निरन्तरमर्धरात्रे क्वचिदन्यत्र बहिर्याति सा नूनं व्यभिचरत्येव, तस्मादेषा व याति किमा-गला चरतीति मया येन केनोपायेन वेदनीयमित्यवधार्य स्वस्थीभूय किञ्चिदस्वाप्सम् । अथ याते च प्रभाते कमलेन सहैव प्रफु-17 ल्लमना उत्थाय गगने कर्मसाक्षीव जगञ्चेष्टितविलोकनाय निजस्त्रियाश्चेष्टितविलोकनायाऽम्बरं ध्रियमाणस्तत्परोऽभवमहमपि । | स्वामिन् ! तत्रावसरे तत्र भवतामरातिगण इव तमःपटलो ननाश । भवद्राज्ये तस्करा इव तारा अपि तिरोदधिरे । त्वयि समुदिते त्वत्सेवका इव समुल्लसति दिवामणौ रथाङ्गनामानः पक्षिणोऽतितराम्प्रामोदन्त । तावका वैरिण इव घूकाः पलायिषत । नाथ ! तदानीं तावकीनं धैर्यमिव कनकगिरावुदयमधिगतं दिवाकरं पण्डिता उपस्थातुमारेभिरे । भवतः सेवका | इव कमलवनानि नितरां जहषुः । अस्मिन्नपि वासरे भिक्षायै तद्गृहमागामहम् । अथ भिक्षां ददाना सा मे पत्नी मामित्यपृच्छत्-भिक्षो ! कोऽसि ?, का च ते जातिः ?, तदाऽवोचमहम्-सुन्दरि ! वणिक्कुलजातिमवेहि । तदाकर्ण्य पुनरवोचत साभोभद्र ! त्वं मे गृहस्य द्वारपालो बुभूषसि ?, तद्वचनं क्षुधातुरस्य भोजनमिव पिपासाकुलस्य शीतलमतिमिष्ट पारीव भृश
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94