Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 38
________________ चरित्रम. भीचम्पक माला ॥२१॥ मनचालयितुमुवंशीव लोके प्रथितास्ति, मामकञ्चेतः कुटिलकटाक्षादिपातेन क्षणाजहे तत्र किमाश्चर्यम् , ततोऽहं शरीरसदने स्थितं मनोवित्तममूल्यमपि तया चोरितमालोक्य निन्दनीयमेतदिति जानन्नपि तदनुरागाधिक्यात्तां प्रेयसीमकरवम् । तदनु यथा बलीवर्दो गामनुगच्छति तथाहं तत्प्रेमरज्जुसमाकृष्टस्तस्या अन्तिकमयासिपम् । तत्रावसरे पङ्कजाऽऽसीना लक्ष्मीर्यथा निजाऽसीमतनुश्रिया दशदिशो विद्योतयते, तथा सापि कामपताका मनोरमस्वीयसौधान्तःसिंहासनोपरिसुखासीना निजनिरवद्याऽशेषगात्रच्छविश्रिया दशदिशः प्रकाशयन्ती, सर्वाङ्गे रत्नाभरणानि मनो-10 हराणि धारयन्ती, त्रिभुवनयुवजनमनोविजेतुं रतिपतेः साक्षादस्वमिव भासमाना, मेनका-रम्भादिनिलिम्पाङ्गना अपि तनुत्विषा हेपयन्ती, शिरीषपुष्पादधिकतरपेशलाङ्गी, तडिद्गौरवर्णा, सुतारुण्यपूर्णा, निजागण्यपुण्यलावण्ययोगादासीकृतनृपेन्द्रादिश्रीमज्जना, मदिरावदुन्मादकारिविम्बाधरोष्ठी, दलदरविन्ददलायताक्षी, मयाऽऽलोकि । अथाऽशेषवेश्याश्रेयसी सापि सरसयुवश्रीमञ्जनेन सह प्रीतिं कामयमाना तादृशमनुरागिणं मामवलोक्य स्मरमुखी कटाक्षयन्ती निजासनादुत्थाय कुड्मलीकृतपाणिपल्लवा जल्पितुमारभत-सुन्दर ! अत्राऽऽगच्छ, मयि दास्यां कृपादृष्टिवृष्टिङ्करु, निजवाञ्छितं कथय ?, यचिकीपसि तद्विधेहि, मामकं यौवनं तवाधीनमेवेति सत्यं जानीहि । राजन् ! तस्या इत्थं वचनरचना आकर्ण्य तदीयगुणगणागण्यतारुण्यरूपलावण्यमोहितोऽहमपि तस्याः सदने न्यवात्सम् । रम्भादिवेश्यया सत्रा देवतेव तया साकमनारतं क्रीडितुं लग्नश्च । प्रतिदिनञ्च यावन्ति धनानि साऽचीकमत, तावन्ति पित्रार्पितानि धनानि तस्यै दातुमलगम् , इत्थं द्वादशवर्षाणि मम तत्र व्यतीतानि । अथैकदा धनजिघृक्षया ॥२१॥ Jain Education 7 1 For Personal & Private Use Only Awainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94