Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 34
________________ श्रीचम्पकमाला ॥१९॥ तिज्ञातवान् महीयान् भवान् युवां नैव हनिष्यामीति' तदवश्यमस्तु सत्यमेवेति निगद्य तत्कालमेव सङ्केतं तस्मै सार्थवाहायला दत्तवती । सोपि झटित्येव तत्र प्रकटीभूय राजानं विलोक्य सागरोऽगस्तिमुनिमिव वितत्रास । तत्रावसरे व्याहिकशीतज्वरजाताऽतिवेपथुमिव सर्वाङ्गे कम्प्रं दधानं तमालोक्य राजा न्यगादीत्-अरे ! माभैषीः, तवापराधं पुराऽहमक्षमिपि । तदा सार्थवाहो मनसि धैर्यमापद्य प्रथमं राजानं नमश्चक्रे । तदनु हर्षाम्बुधौ निमग्नतामुपनीतः सगद्गगिरा क्षोणीशं निगदितुमारेभे-प्रभो ! मया दुराचारिशिरोमणिना यदीदृशमकार्यमकारि तर्हि सज्जनशिरोमणिना त्वया प्रभुणा तत्क्षन्तव्यमेव, यतः-'प्रतिकर्तुमशक्तस्य लोके क्षमणं भवत्येव तत्र किश्चित्रम् ?, यो हि तत्प्रतिक्रियाङ्कर्तुमर्हति, स यदि कस्यचिदज्ञस्य महान्तमपि मन्तुं सहेत, तर्हि तत्समो क्षमी नान्यः कोऽपि । अन्यः क्षितिपतिस्तु मन्तुमन्तरापि क्रव्याद इव लोकान् कृतान्ताऽतिथीन् विधत्ते । भवांस्तु-असहनीयेऽप्यपराधे क्षमासागर इव मां लेशतोऽपि नाऽपीडयत् । तस्माद्यस्याऽल्पीयसी शक्तिर्भवति सएव वृश्चिक इवाऽन्यं पीडयति । ईदृशा दुर्जना यमुनासोदराकाराः पृथिव्यां भूयांसः सन्ति, परन्तु फणिराज इवाऽतुलसकलशक्तिमान् कृतागस्यपि जने क्रोधलेशमप्यकुर्वन् भवादृशस्तु विरल एव सम्भवति । अयमभिप्राय:-शेषो यथा बहुशक्तिमान भूत्वा क्षमां-पृथ्वीं धरते, तत्रस्था लोका असहनीयानप्यपराधान् कुर्वते, तानपि सहते, कदापि धृतां पृथ्वीं नैव जहाति । तथैव ये राजानः क्षमा शान्ति दधते, प्रजाश्च पालयन्ति, ते तु कृतागसामज्ञानामुपरि क्रोधमपहाय प्रसादमेव दर्शयन्ति । किञ्च, सर्वविदां शक्तिमतां क्षमैव सर्वस्वं भवति, अतस्ते महात्मानः क्षमाकाले तेषां दोषानशेषान् विस्मरन्त्येव । यद्यपि जगति शक्तिमतां क्षमा कुत्रापि न दृश्यते, तथापि त्वयि शक्तिशालिन्यपि यदनुपमा सहनशीलता विद्यते आ॥१९॥ JainEducatio n al For Persona & Private Use Only lainerary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94