Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 11
________________ तथापि तस्य विद्वत्तमस्य तथोक्त परीक्षायै मयैतदवश्यं परीक्षणीयम् । यद्यपि तादृशां विशिष्टपुंसां वचस्यलीकता कदापि नो भवितुमर्हति तथाप्यहमेतत्परीक्षिष्ये ' यस्माच्छ्रतस्य साक्षात्कारे कृते सति प्रामाण्यं खल्वधिकमुत्पद्यते महतामपि । ' इत्यवधार्य देव इव शक्तिमान् नीलाम्बरं दधान एकाकी तीक्ष्णासिपाणिः स राजा शय्यां विहाय तत्परीक्षायै गुप्त्या नगरे सर्वत्रेतस्ततः पर्यटन क्वचिदेकत्र क्रीडन्त्यौ, रूपलावण्यादिगुणोत्करे, चतुरतरे, द्वे कन्येऽपश्यत् । तत्रावसरे तयोमिथः सम्भाषणादिशुश्रूषया यावद्राजा स्थैर्येणाऽतिष्ठत, तावत्तयोरेका प्रकृत्या सरला कन्यका प्रोवाच-सखि ! यदाहं परिणीता सती श्वशुरालयं गमिष्यामि, तदा सोत्साहेन प्रेयांसमनवरतमसीमया प्रीत्या वाढं सेविष्ये । यतः 'स्त्रीणां पतिसेवनं महाफलं सुखावहं स्वर्गापवर्गजनकमित्युवाच नीतिः।' किञ्च गृहकृत्यादि यद्यदादेक्ष्यति पतिस्तदशेषं शिरसोपनीय सुखेन करिष्ये, अत्युच्चैर्वृत्तिमतिस्वान्ते च स्थापयिष्यामि सर्वदा । यस्मात्पतिव्रतायाः स्त्रियाः पतिरेव देवो न्यगादि, अतः स्वामिन आज्ञा प्रतिपालनमेव स्त्रीणां साधीयान् धर्मः प्रत्यपादि नीतिशास्त्रे ।' उक्तञ्चन दानैः शुद्धयते नारी, नोपवासशतैरपि । अव्रतापि भवेच्छुद्धा, भर्तृहृद्गतमानसा ॥ ५ ॥ अन्धं वा कुब्जकं वाथ, कुष्ठं वा व्याधिपीडितम् । जीवितावधि भर्तारं, पूजयेत्सा महासती ॥६॥ त्यजेत्पुत्रश्च मित्रञ्च, पितरावपि शोभनौ । जीवितावधि भर्तारं, न त्यजेत् सा महासती ॥७॥ इत्थं नैतिकवचनमन्त्राक्षरश्रवणप्रणष्टधाष्ट्रवर्याऽहं स्वप्राणनाथमाजन्म भजिये खलु । इत्याकर्ण्य शाठ्यप्रकृतिका द्वितीया * Jain Education For Personal & Private Use Only Kinjainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94